ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्द्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदा᳚ग्ने॒यꣳ सर्वं॒ भव॑ति॒ सैवास्यर्द्धिः॒ सं ॅवा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ स वाचꣳ॒॒ सꣳसृ॑ष्टां॒ ॅयज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र् विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय॒ - [ ]
पदपाठः (Word-by-word)
ध॒त्ते॒ । श॒ताक्ष॑रा॒ इति॑ श॒त - अ॒क्ष॒राः॒ । भ॒व॒न्ति॒ । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यत् । वै । अ॒ग्निः । आहि॑त॒ इत्या - हि॒तः॒ । न । ऋ॒द्ध्यते᳚ । ज्यायः॑ । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । नि॒का॒मय॑मान॒ इति॑ नि - का॒मय॑मानः । यत् । आ॒ग्ने॒यम् । सर्व᳚म् । भव॑ति । सा । ए॒व । अ॒स्य॒ । ऋद्धिः॑ । समिति॑ । वै । ए॒तस्य॑ । गृ॒हे । वाक् । सृ॒ज्य॒ते॒ । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । सः । वाच᳚म् । सꣳसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् । यज॑मानः । ई॒श्व॒रः । अन्विति॑ । परा॑भवितो॒रिति॒ परा᳚ - भ॒वि॒तोः॒ । विभ॑क्तय॒ इति॒ वि - भ॒क्त॒यः॒ । भ॒व॒न्ति॒ । वा॒चः । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । यज॑मानस्य । अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ।