उ॒भा राध॑सः स॒ह मा॑द॒यद्ध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वां ॥ अ॒यं ते॒ योनि॑र्. ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्द्धया र॒यिं ॥ अग्न॒ आयूꣳ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनां᳚ ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यं᳚ । दध॒त्पोषꣳ॑ र॒यिं - [ ]
पदपाठः (Word-by-word)
उ॒भा । राध॑सः । स॒ह । मा॒द॒यद्ध्यै᳚ ॥ उ॒भा । दा॒तारौ᳚ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये᳚ । हु॒वे॒ । वा॒म् ॥ अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ॥ तम् । जा॒नन्न् । अ॒ग्ने॒ । एति॑ । रो॒ह॒ । अथ॑ । नः॒ । व॒र्द्ध॒य॒ । र॒यिम् ॥ अग्ने᳚ । आयूꣳ॑षि । प॒व॒से॒ । एति॑ । सु॒व॒ । ऊर्ज᳚म् । इष᳚म् । च॒ । नः॒ ॥ आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना᳚म् ॥ अग्ने᳚ । पव॑स्व । स्वपा॒ इति॑ सु - अपाः᳚ । अ॒स्मे इति॑ । वर्चः॑ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ दध॑त् । पोष᳚म् । र॒यिम् ।