तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे᳚ प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र् वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒र् व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तꣳ - [ ]
पदपाठः (Word-by-word)
त॒नू॒पा इति॑ तनू - पाः । हि । ए॒षः । अग्ने᳚ । यत् । मे॒ । त॒नुवाः᳚ । ऊ॒नम् । तत् । मे॒ । एति॑ । पृ॒ण॒ । इति॑ । आ॒ह॒ । यत् । मे॒ । प्र॒जाया॒ इति॑ प्र - जायै᳚ । प॒शू॒नाम् । ऊ॒नम् । तत् । मे॒ । एति॑ । पू॒र॒य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ । स्व॒स्ति । ते॒ । पा॒रम् । अ॒शी॒य॒ । इति॑ । आ॒ह॒ । रात्रिः॑ । वै । चि॒त्राव॑सु॒रिति॑ चि॒त्र - व॒सुः॒ । अव्यु॑ष्ट्या॒ इत्यवि॑ - उ॒ष्ट्यै॒ । वै । ए॒तस्यै᳚ । पु॒रा । ब्रा॒ह्म॒णाः । अ॒भै॒षुः॒ । व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । ए॒व । अवेति॑ । रु॒न्धे॒ । इन्धा॑नाः । त्वा॒ । श॒तम् ।