सा॒मि मा᳚र्जयन्त ए॒तत् प्रति॒ वा असु॑राणां ॅय॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒र् बृह॒स्पति॑ -स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञ्ꣳ सं द॑धाति॒ विच्छि॑न्नं ॅय॒ज्ञ्ꣳ समि॒मं द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञ्ं दे॒वेभ्योऽनु॑ दिशति॒ यां ॅवै - [ ]
पदपाठः (Word-by-word)
सा॒मि । मा॒र्ज॒य॒न्ते॒ । ए॒तत् । प्रतीति॑ । वै । असु॑राणाम् । य॒ज्ञ्ः । वीति॑ । अ॒च्छि॒द्य॒त॒ । ब्रह्म॑णा । दे॒वाः । समिति॑ । अ॒द॒धुः॒ । बृह॒स्पतिः॑ । त॒नु॒ता॒म् । इ॒मम् । नः॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । य॒ज्ञ्म् । समिति॑ । द॒धा॒ति॒ । विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । य॒ज्ञ्म् । समिति॑ । इ॒मम् । द॒धा॒तु॒ । इति॑ । आ॒ह॒ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । विश्वे᳚ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् । इति॑ । आ॒ह॒ । स॒तंत्येति॑ सं - तत्य॑ । ए॒व । य॒ज्ञ्म् । दे॒वेभ्यः॑ । अन्विति॑ । दि॒श॒ति॒ । याम् । वै ।