राप्त्यै॑ दे॒वा वै यद्-य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्य-म॑न्वाहा॒र्य॑-मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसी- [ ]
पदपाठः (Word-by-word)
आप्त्यै᳚ । दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ । ते । दे॒वाः । ए॒तम् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । अ॒प॒श्य॒न्न् । तम् । अ॒न्वाह॑र॒न्तेत्य॑नु - आह॑रन्त । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । य॒ज्ञेन॑ । वै । इ॒ष्टी । प॒क्वेन॑ । पू॒र्ती । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । सः । तु । ए॒व । इ॒ष्टा॒पू॒र्तीती᳚ष्ट - पू॒र्ती । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । भा॒गः । अ॒सि॒ ।