प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.7.5.1 TS 1.7.5.1
ध्रु॒वां ॅवै रिच्य॑मानां ॅय॒ज्ञोऽनु॑ रिच्यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां ॅय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वा ऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां ॅय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर् वि॒भान्नाम॑ लो॒कस्तस्मिꣳ॑स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑ - [ ]
▶ पदपाठः (Word-by-word)
ध्रु॒वाम् । वै । रिच्य॑मानाम् । य॒ज्ञ्ः । अन्विति॑ । रि॒च्य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । ध्रु॒वाम् । आ॒प्याय॑माना॒मित्या᳚ - प्याय॑मानाम् । य॒ज्ञ्ः । अनु॑ । एति॑ । प्या॒य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । एति॑ । प्या॒य॒ता॒म् । ध्रु॒वा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । ध्रु॒वाम् । ए॒व । एति॑ । प्या॒य॒य॒ति॒ । ताम् । आ॒प्याय॑माना॒मित्या᳚ - प्याय॑मानाम् । य॒ज्ञ्ः । अनु॑ । एति॑ । प्या॒य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वि॒भानिति॑ वि - भान् । नाम॑ । लो॒कः । तस्मिन्न्॑ । त्वा॒ । द॒धा॒मि॒ । स॒ह । यज॑मानेन । इति॑ ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः)।

चतुर्थे शेषाहुत्यनुमन्त्रणमन्त्रा व्याख्याताः। पञ्चमे त्वाप्यायनादिमन्त्रा व्याख्यायन्ते। तत्राऽऽप्यायनमन्त्रं व्याख्यातुमन्वयव्यतिरेकाभ्यां प्रस्तौति - ध्रुवां वा इति। ध्रुवायां रिक्तायां यज्ञस्यासंपूर्त्या यजमानस्य फलाभावात्त-दीयप्रजाया अन्नाद्यभाव इति व्यतिरेकः। एवमन्वये योज्यम्।

मन्त्रं व्याचष्टे - आ प्यायतिमिति।

यजमानभागप्राशनमन्त्रं व्याचष्टे - प्रजापतेरिति। विशेषेण कर्मभूमित्वेन भातीति विभानयं भूलोकः। एनं यजमानभागम्।

यजमानस्य रिक्तीकरणनिवारणेन भागप्राशनं प्रशंसति - रिच्यत इति। यजत इति यत्, एतेन पुरोडाशाज्यसांनाय्यद्रव्यहोमे यजमानो रिक्त इव भवति। भागप्राशनेन तु प्रीतस्तं क्लेशं जहाति।

यज्ञप्रतिष्ठाहेतुत्वेनापि तदेव प्रशंसति - एतावानिति। यजमानस्य भागो यावानस्ति एतावानेवेह लोके यजमान-स्योपयुक्तो यज्ञोऽवशिष्टस्य देवैत्विग्भिश्च भक्ष्यमाणत्वात्। स्वयं च यज्ञस्वामित्वेन यज्ञात्मकः। तथा सति यजमानेन भागे प्राशिते यज्ञ एव यज्ञः प्रतिष्ठापितो भवति।

पूर्णपात्रस्य निनयनं विधातुं प्रस्तौति – एतद्वा इति। वेदेर्हविर्धारणेन यजमानस्थानत्वम्। एतच्च स्थानं बर्हिषाऽऽ-स्तीर्णत्वात्समीचीनतृणोपेतं प्रणीतानामत्र स्थापितत्वादुदकोपेतं च।

विधत्ते - यत्पूर्णपात्रमिति। सूवयसं तृणसमृद्धिं सोदमुकदसमृद्धिं च कुरुते।

निनयनमन्त्रं व्याचष्टे - सदसिति। अपां यज्ञसाधनत्वाद्यज्ञत्वं, जीवनहेतुत्वाच्चामृतत्वं, तस्मादपोऽ-भिलक्ष्य सन्मे भूया इत्युक्ते सति यज्ञरूपममृतं स्वस्मिन्धारयति।

व्युत्सेचनमन्त्रं व्याचष्टे - सर्वाणीति। यो यजमानो यज्ञव्रतमुपैति तमनु देवपित्रादीनि सर्वाणि भूतानि व्रतं प्रारभन्ते। अतो देवपित्रादिमार्जनप्रतिपादकेनानेन मन्त्रेण तैः सर्वैर्भूतैः सहैवावभृथं प्राप्नोति।

विष्णुक्रमान्विधत्ते - विष्णुमुखा इति। देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अन्यैर्जेतुं यथा न शक्यते तथा लोकानजयन्। अतो यजमानो विष्णुक्रमान्क्रमत इति यत्स विष्णुरेव भूत्वेमाँल्लोकानभिजयति।

तत्रत्यान्मन्त्रान्व्याचष्टे - विष्णोः क्रम इति। गायत्रादिच्छन्दोदेवानां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रेण छन्दसेत्यादि पठितमित्यभिप्रायः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः॥५॥
▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आप्यायतामिति ध्रुवाया आप्यायमानाया अनुमन्त्रणम् । तामाप्यायमानां स्तोतुमाह - ध्रुवां वा इत्यादि ॥ अनोर्लक्षणे कर्मप्रवचनीयत्वम् । रिचिर् रेचने, रौधादिकः, कर्मकर्तरि यक् व्यत्ययेनाद्युदात्तत्वम् । 'अचः कर्तृयकि' इति वा व्यत्ययेनानजन्तस्य भवति । श्यन्वा व्यत्ययेन । ओ प्यायी वृद्धौ । गतमन्यत् ॥
2 प्रजापतेर्वेभानिति ॥ यजमानप्राशनमन्त्रः । अयं लोको मनुष्यलोकः सूर्यादिभिर्विविधं भातीति विभान् । रिच्यत इवेत्यादि । नियमैः कर्शितत्वात् रिच्यत इव यजमानः । स आत्मीयभागप्राशनेनात्मानं तर्पयति । एतावानित्यादि । प्राधान्याद्यज्ञो यजमान इति तदधीनत्वात्तन्निवृत्तेः ॥

एतद्वा इत्यादि ॥ पूणपात्रविधिः । सूयवसं सोदकं चानेनेतत्क्रियते, यद्बर्हिश्चापश्च संयोज्यन्ते । किञ्च - एतद्यजमानस्यायतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥

4 तत्र सदसि सन्मे इति पूर्णपात्र अनीयमाने यजमानो जपति ॥ आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयेते इति भावः ॥
5 सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि देवादीनि उपयन्ति उपगच्छन्ति । इदानीं तैस्सर्वैस्सहावभृथमवैति । कः पुनरयमवभृथ इत्याह – प्राच्यामित्यादि । अनेन मन्त्रेण यद्दिशां व्युत्सेचनम् ॥
6 विष्णुमुखा इत्यादि ॥ विष्णुक्रमाणां क्रमणविधिः । ते च 'विष्णोः क्रमोसि' इत्यादयः । विष्णुमुखाः विष्णुप्रधानाः । अनपजय्यमन्यैरपजेतुमशक्यम् । क्रियाविशेषणम्, 'अचो यत्' 'क्षय्यजय्यौ शक्यार्थे' इति अयादेशः, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । विष्णोः क्रमोसीति । चतुर्णां क्रमाणां ग्रहणम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ् । आनुष्टुभीः अनुष्टुब्भ्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । छन्दोभिरेवेत्यादि । गायत्र्यादयः पृथिव्यादीनां कारणानि ; कारणेन च कार्यजयस्सुकर इति भावः । यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥
इति सप्तमे पञ्चमोनुवाकः ॥