प्रश्नः 8 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.8.13.1 TS 1.8.13.1
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ्स्तोमो॑ रथन्त॒रꣳ सामा॒ग्निर् दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः स्तोमो॑ बृ॒हथ् सामेन्द्रो॑ दे॒वता᳚ क्ष॒त्रं द्रवि॑णं ॅवि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒पꣳ साम॑ म॒रुतो॑ दे॒वता॒ विड् द्रवि॑ण॒-मुदी॑ची॒मा-ति॑ष्ठानु॒ष्टुप् त्वा॒ - [ ]
▶ पदपाठः (Word-by-word)
स॒मिध॒मिति॑ सं-इध᳚म् । एति॑ । ति॒ष्ठ॒ । गा॒य॒त्री । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । त्रि॒वृदिति॑ त्रि-वृत् । स्तोमः॑ । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । साम॑ । अ॒ग्निः । दे॒वता᳚ । ब्रह्म॑ । द्रवि॑णम् । उ॒ग्राम् । एति॑ । ति॒ष्ठ॒ । त्रि॒ष्टुप् । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । स्तोमः॑ । बृ॒हत् । साम॑ । इन्द्रः॑ । दे॒वता᳚ । क्ष॒त्रम् । द्रवि॑णम् । वि॒राज॒मिति॑ वि-राज᳚म् । एति॑ । ति॒ष्ठ॒ । जग॑ती । त्वा॒ । छन्द॑साम् । अ॒व॒तु॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः । स्तोमः॑ । वै॒रू॒पम् । साम॑ । म॒रुतः॑ । दे॒वता᳚ । विट् । द्रवि॑णम् । उदी॑चीम् । एति॑ । ति॒ष्ठ॒ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । त्वा॒ ।
पदसंख्या: 50
▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ यजमानमध्वर्युर्दिशो व्यास्थापयति, मध्ये पश्चिमेन समिधमातिष्ठति पञ्चभिः । तत्र प्राचीं - समिधमिति ॥ समिद्ध्यतेस्यामादित्य इति समित् प्राचीदिक् उपर्युपरि समिद्धा भवतीति । तामातिष्ठाधितिष्ठ स्वीकुरु । गायत्री चतुर्विंशत्यक्षरा छन्दसाम्मध्ये प्राच्यां दिशि स्थिता त्वामवतु । त्रिवृदाख्यस्स्तोमश्च त्वामवत्वित्येव । स्तोमानाम्मध्य इति गम्यते । त्रयोवयवस्तिस्रो वृत्तयो यस्य स त्रिवृत् नवस्तोत्रीयः । 'त्रिचक्रादीनां छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । रथन्तरं च साम त्वामवतु साम्नाम्मध्ये । 'संज्ञायां भृतॄवृजि' इत्यादिना खच् । अग्निर्देवता त्वामवतु देवतानां मध्ये । ब्रह्म ब्राह्मणः द्रविणं प्रशस्तं धनं त्वामवतु द्रविणानां मध्ये ॥
2 दक्षिणां उग्रामिति ॥ उग्रां पितृसम्बन्धाद्दक्षिणामातिष्ठ । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा । पञ्चदशस्स्तोमः पञ्चदशस्स्तोत्रीयः परिमाणमस्य 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः । बृहत्साम इन्द्रश्च क्षत्रं क्षत्रियाः । गतमन्यत् ।
3 प्रतीचीं - विराजमिति ॥ जगती विराट् उपर्युपरि शान्ता भवतीति । अष्टाचत्वारिंशदक्षरा जगती । सप्तदशस्स्तोमः सप्तदशस्तोत्रीयः । वैरूपाख्यं साम । मरुतो देवता । विट् वैश्याः ॥
4 उत्तरां - उदीचीमिति ॥ उत्क्रम्याञ्चति भूगोलमित्युदीची ; यत्र गच्छन्नादित्यो न दृश्यते । 'अनिगन्तोञ्चतौ' इति प्रकृतिस्वरत्वम् । अनुष्टुब्द्वात्रिंशदक्षरा । एकविंशः एकविंशतिस्तोत्रीयः । वैराजाख्यं साम । मित्रावरुणौ देवता । समुदायस्य देवतात्वादेकवचनं, देवतात्वमात्रस्य विवक्षितत्वात् ; श्रुतयः प्रमाणमिति यथा । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
5 मध्ये - ऊर्ध्वामिति ॥ पङ्क्तिः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः । शाक्वरं रैवतं च सामद्वयम् । बृहस्पतिर्देवता । वनस्पत्यादित्वाद्द्वयोर्युगपत्प्रकृतिस्वरत्वम् । वर्चो दीप्तिः । निगदसिद्धमन्यत् ॥
6 -19अत्र मारुत एकविंशतिकपालोस्ति, तत्र मध्यमानि सप्तकपालानि 'धुनिश्च ध्वान्तश्च' इत्यारण्येनानुवाक्येनोपधीयन्ते । अन्यानि चतुर्दश, एताभ्यां गणाभ्यामुपदधाति - ईदृड्चेत्यादिना ॥ शुक्रज्योतिश्चेत्यादिना च ॥ एते चतुर्दश मरुद्विशेषाः । तादर्थ्यात्कपालेषु ताच्छब्द्यम् । इदमिव पश्यतीदृङ् । 'त्यदादिषु दृशः' इति क्विन्, 'इदङ्किभोरीश्की' इतीशादेशः, 'दृक्स्ववस्स्ववतसां छन्दसि ' ईति नुम्, 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अन्य इव पश्यति अन्यादृङ् । 'आ सर्वनाम्नः' इत्यात्वम् । एष इव पश्यति एतादृङ् । परत्र सन्निहितमेतच्छब्द आह, आत्मनि सन्निहितमिदंशब्दः । प्रतिकूलं पश्यतीति प्रतिदृङ् । छान्दसः क्विन् । मितः निभृतः । सम्मितः संहतरूपः । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । सह बिभतीर्ति सभराः । छान्दसोसुन् । भरसा सह वर्तत इति वा सभराः, भरो वेगः । शुक्रज्योतिः येन ज्योतींषि शुक्राणि क्रियन्ते । चित्राणि पूजनीयानि ज्योतींषि येन क्रियन्ते स चित्रज्योतिः । सत्सु साधूनि सत्यानि ज्योतींषि येन स सत्यज्योतिः । ज्योतिष्मान् ब्रह्मज्योतिः । सत्यस्सति साधुः । छान्दसमन्तोदात्तत्वम् । ऋतस्य यज्ञस्य पाता रक्षकः ऋतपाः । अत्यंहाः अंहोतिक्रान्तवान् । अत्यर्थं वा गच्छतीत्यत्यंहाः । 'गतिकारकयोरपि' इत्यंहेरसुन् ॥
20 -25षट्पार्थिवानि वारुणानि पुरस्तादभिषेकस्य जुहोति - अग्नये स्वाहेत्यादीनि बृहस्पत्यन्तानि ॥
26 -31षडुपरिष्टात् - इन्द्राय स्वाहेत्यादीनि क्षेत्रस्य पतये स्वाहे त्यन्तानि । सर्वाणि निगदसिद्धानि ॥
32 -37षट्पुरस्ताद्भूतानामवेष्टीर्जुहोति - पृथिव्यै स्वाहेत्याद्यानि नक्षत्रेभ्यस्स्वाहेत्यन्तानि ॥ पृथिव्यादिभ्यः मृत्युरवेष्टो भवति विनाशितो भवति ॥
38 -43षडुपरिष्टादद्भ्यस्स्वाहेत्याद्याः सरीसृपेभ्यस्स्वाहेत्यन्ताः । सर्वा निगदसिद्धाः । चरणशिलाश्चराचराः । चरेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्याडागमः । परितः प्लवनशीलाः परिप्लवाः । स एवाच् । सर्पणशीलास्सरीसृपाः । सृपेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्य रीगागमः, 'न धातुलोप आर्धधातुके' इति गुणाभावः ॥

इत्यष्टमे त्रयोदशोनुवाकः ॥