सर्वा॒न्॒. वा ए॒षो᳚ऽग्नौ कामा॒न् प्रवे॑शयति । यो᳚-ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एनं॒ कामा॒ नानु॒ प्रया॑युः । अ॒ते॒जा अ॑वी॒र्यः॑ स्यात् । स जु॑हुयात् । तुभ्यं॒ ता अ॑ङ्गिरस्तम । विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ । कामा॑ने॒वास्मि॑न् दधाति
कोर्वै (Index)
(द॒धा॒ति॒ - य॒ज्ञ् - उ॑त॒ एकं॒ - धय॑न्ति - रुन्धे - कुर्या - दा॒र्छ - त्य॒पाकु॑र्यात् - पृथि॒वी त्वम॒ष्टौ च॑)