TB 3.7.5

13 पञ्चाशत्

3.7.5 अनुवाकं 5 -ऐष्टिकयाजमानमन्त्राः

3.7.5.1
देवा॑ दे॒वेषु॒ परा᳚क्रमद्ध्वं । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑या-स्तृ॒तीये॑षु । त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒दꣳ श॑केयं॒ ॅयदि॒दं क॒रोमि॑ । आ॒त्मा क॑रोत्वा॒त्मने᳚ । इ॒दं क॑रिष्ये भेष॒जं । इ॒दं मे॑ विश्वभेषजा । अश्वि॑ना॒ प्राव॑तं ॅयु॒वं ॥ इ॒दम॒हꣳ सेना॑या अ॒भीत्व॑र्यै
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.2
मुख॒मपो॑हामि ॥ सूर्य॑ज्योति॒ र्विभा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ ॥ आप्या॑यतां घृ॒तयो॑निः । अ॒ग्निर्. ह॒व्या-ऽनु॑मन्यतां । खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व । सु॒रू॒पं त्वा॑ वसु॒विदं᳚ । प॒शू॒नां तेज॑सा । अ॒ग्नये॒ जुष्ट॑-म॒भिघा॑रयामि ॥ स्यो॒नं ते॒ सद॑नं करोमि
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.3
घृ॒तस्य॒ धार॑या सु॒शेवं॑ कल्पयामि ॥ तस्मि᳚न्-थ्सीदा॒मृते॒ प्रति॑तिष्ठ । व्री॒ही॒णां मे॑ध सुमन॒स्यमा॑नः ॥ आ॒र्द्रः प्र॑थस्नु॒र् भुव॑नस्य गो॒पाः । शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नां ॥ यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । दे॒वानां᳚ ॅवि॒ष्ठामनु॒ यो वि॑त॒स्थे । आ॒त्म॒न्वान् थ्सो॑म घृ॒तवा॒न॒. हि भू॒त्वा । दे॒वान् ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्यं᳚ ॥ इरा॒ भूतिः॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ।
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.4
देवाः᳚ पितरः॒ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन्. य॑जे । यस्या᳚स्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्टꣳ स्वं द॒त्तं । स्वं पू॒र्तꣳ स्वꣳ श्रा॒न्तं । स्वꣳ हु॒तं । तस्य॑ मे॒ऽग्नि-रु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑-ऽनुख्या॒ता । द्यौः पि॒ता
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.5
पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒ र्बन्धुः॑ । य ए॒वास्मि॒ स सन्. य॑जे ॥ मा भेर्मा सम्ॅवि॑क्था॒ मा त्वा॑ हिꣳसिषं । मा ते॒ तेजो-ऽप॑क्रमीत् । भ॒र॒तमुद्ध॑रे॒ मनु॑षिञ्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ॥ यद॑व॒दाना॑नि तेऽव॒द्यन्न् । विलो॒माका॑र्.षमा॒त्मनः॑
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.6
आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आप्या॑यतां॒ पुनः॑ ॥ अज्या॑यो यवमा॒त्रात् । आ॒व्या॒धात् कृ॑त्यतामि॒दं । मा रू॑रुपाम य॒ज्ञ्स्य॑ । शु॒द्धꣳ स्वि॑ष्टमि॒दꣳ ह॒विः ॥ मनु॑ना दृ॒ष्टां घृ॒तप॑दीं । मि॒त्रावरु॑णसमीरितां । द॒क्षि॒णा॒र्द्धादस॑भिंन्दन्न् । अव॑द्या-म्येक॒तो मु॑खां ।
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.7
इडे॑ भा॒गं जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्या᳚स्ते भक्षि॒वाणः॑ स्याम । स॒र्वात्मा॑नः स॒र्वग॑णाः ॥ ब्रद्ध्न॒ पिन्व॑स्व । दद॑तो मे॒ मा क्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शां क्लृप्ति॑रसि । दिशो॑ मे कल्पन्तां । कल्प॑न्तां मे॒ दिशः॑
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.8
दैवी᳚श्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेतां । अ॒र्द्ध॒मा॒सा मे॑ कल्पन्तां । मासा॑ मे कल्पन्तां । ऋ॒तवो॑ मे कल्पन्तां । स॒म्ॅव॒थ्स॒रो मे॑ कल्पतां । क्लृप्ति॑रसि॒ कल्प॑तां मे ॥ आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒दं भू॒तस्या-द्ध्य॑क्षेभ्यः
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.9
वि॒धेम॑ ह॒विषा॑ व॒यं । भज॑तां भा॒गी भा॒गं । माऽभा॒गो-ऽभ॑क्त । निर॑भा॒गं भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑-मि॒दꣳ ह॒विः
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.10
सो॒म्यानाꣳ॑ सोमपी॒थिनां᳚ । निर्भ॒क्तो ब्रा᳚ह्मणः । नेहा-ब्रा᳚ह्मणस्यास्ति ॥ सम॑ङ्क्तां ब॒र॒.हिर्. ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यै र्वसु॑भिः॒ सं म॒रुद्भिः॑ । समिन्द्रे॑ण॒ विश्वे॑भि र्दे॒वेभि॑रङ्क्तां । दि॒व्यं नभो॑ गच्छतु॒ यथ् स्वाहा᳚ ॥ इ॒न्द्रा॒णी वा॑ विध॒वा भू॑यासं । अदि॑तिरिव सुपु॒त्रा । अ॒स्थू॒रि त्वा॑ गार्.हपत्य
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.11
उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ॥ सं पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छतां । य॒ज्ञ्स्य॑ यु॒क्तौ धुर्या॑वभूतां । स॒जां॒ना॒नौ विज॑हता॒-मरा॑तीः । दि॒वि ज्योति॑र॒ज-र॒मार॑भेतां ॥ दश॑ ते त॒नुवो॑ यज्ञ् य॒ज्ञियाः᳚ । ताः प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयोः᳚ प्र॒शिष॒मीड॑मानः । दे॒वानां॒ दैव्येऽपि॒ यज॑मानो॒-ऽमृतो॑-ऽभूत् ॥ यं ॅवां᳚ दे॒वा अ॑कल्पयन्न्
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.12
ऊ॒र्जो भा॒गꣳ श॑तक्रतू । ए॒तद्वां॒ तेन॑ प्रीणानि । तेन॑ तृप्यतमꣳहहौ ॥ अ॒हं दे॒वानाꣳ॑ सु॒कृता॑मस्मि लो॒के । ममे॒दमि॒ष्टं न मिथु॑ र्भवाति । अ॒हं ना॑रि॒ष्ठा-वनु॑यजामि वि॒द्वान् । यदा᳚भ्या॒-मिन्द्रो॒ अद॑धा-द्भाग॒धेयं᳚ ॥ अदा॑रसृद्भवत देव सोम । अ॒स्मिन्. य॒ज्ञे म॑रुतो मृडता नः । मा नो॑ विदद॒भि भा॒मो अश॑स्तिः
कोर्वै (Index)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑)
3.7.5.13
मा नो॑ विदद्-व॒जना॒ द्वेष्या॒ या ॥ ऋ॒ष॒भं ॅवा॒जिनं॑ ॅव॒यं । पू॒र्णमा॑सं ॅयजामहे । स नो॑ दोहताꣳ सु॒वीर्यं᳚ । रा॒यस्पोषꣳ॑ सह॒स्रिणं᳚ । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा᳚ ॥ अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा᳚ । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहताꣳ सु॒वीर्यं᳚ ( ) । रा॒यस्पोषꣳ॑ सह॒स्रिणं᳚ । अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा᳚ ॥ अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदिं᳚ । जा॒मिं मा हिꣳ॑सीरमु॒या शया॑ना । हो॒तृ॒षद॑ना॒ हरि॑ताः सु॒वर्णाः᳚ । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒द्ध्ने ।