यद्विः ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानः स्यात् । यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒न-स्स्या᳚त् । प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीक-व॒पाया॒म-व॑नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञ्ः प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञ्ं प्रति॑ष्ठापयति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः
कोर्वै (Index)
(वै प्र॒जाप॑तिः - स्थापयति - प्रजा॒नन् - न॒भिजु॑हु॒याथ् - स्या᳚द् - ध्रियेत॒ - जहा॑म॒ त्रिणि॑ च)