ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाꣳ॑ ह॒विषा॒-माज्य॑स्य । अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नं । य॒ज्ञ्ः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ॥ आश्रा॑वितम॒त्याश्रा॑वितं । वष॑ट्कृत-म॒त्यनू᳚क्तं च य॒ज्ञे । अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नं । य॒ज्ञ्ः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ । स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ।
कोर्वै (Index)
(दे॒वाꣳ - श्चि॒त्रं - त॒नूभ्यः॒ स्वाहो॒ - नं - पुरु॑षसंमि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च)