यद्दे॑वा देव॒हेड॑नं । देवा॑सश्चकृ॒मा व॒यं । आदि॑त्या॒-स्तस्मा᳚न्मा मुञ्चत । ऋ॒तस्य॒र्तेन॒ मामु॒त ॥ देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्.ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒ नसं᳚ ।
कोर्वै (Index)
(अ॒ने॒नस॑ - मष्ठी॒वद्भ्याꣳ॑ - स॒ति - प॑रा॒शसा॑ऽऽन॒शे᳚ - ऽग्निर्मा॒ तस्मा॒देन॑सः - पुनीत न॒स्त्रीणि॑ च)