TB 3.7.10

6 पञ्चाशत्

3.7.10 अनुवाकं 10 -सौमिकप्रायाश्चित्तमन्त्राः

3.7.10.1
उद॑स्तांफ्सीथ् सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑-न॒मित्रा॑-नवधीद्यु॒गेन॑ । बृ॒हन्तं॒ माम॑कर-द्वी॒रव॑न्तं । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्यां । वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒-ऽन्तरि॑क्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि । बृ॒ह॒ता त्वोप॑स्तभ्नोमि ॥ आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च । अ॒स्मास्व॑-घ्निया यू॒यं द॑धाथेन्द्रि॒यं पयः॑ ॥ यस्ते᳚ द्र॒फ्सो यस्त॑ उद॒र्॒.षः
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)
3.7.10.2
दैव्यः॑ के॒तु र्विश्वं॒ भुव॑न-मावि॒वेश॑ । स नः॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा᳚ ॥ अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑-ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुतः॒ सामा॒र्कः । आ॒प्रिय॒ ॑007आ;छन्दाꣳ॑सि नि॒विदो॒ यजूꣳ॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञियं᳚ ॥ प्र॒जाप॑ते र्वर्त॒निमनु॑ वर्तस्व । अनु॑ वी॒रैरनु॑ राद्ध्याम॒ गोभिः॑ । अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जया-ऽन्वि॑न्द्रि॒येण॑
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)
3.7.10.3
दे॒वा नो॑ य॒ज्ञ्-मृ॑जु॒धा न॑यन्तु ॥ प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑ तिष्ठामि॒ भव्ये᳚ । विश्व॑म॒न्याऽभि॑ वावृ॒धे । तद॒न्यस्या॒-मधि॑श्रि॒तं । दि॒वे च॑ वि॒श्वक॑र्मणे । पृ॒थि॒व्यै चा॑करं॒ नमः॑ ॥ अस्का॒न्द्यौः पृ॑थि॒वीं । अस्का॑नृष॒भो युवा॒ गाः
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)
3.7.10.4
स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञ्ः प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा᳚ । स्क॒न्नात् प्रज॑निषीमहि ॥ ये दे॒वा येषा॑मि॒दं भा॑ग॒धेयं॑ ब॒भूव॑ । येषां᳚ प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्यः॒ स्वाहा᳚ ॥ उ॒त त्या नो॒ दिवा॑ म॒तिः
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)
3.7.10.5
अदि॑तिरू॒त्या-ऽऽग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ ॥ उ॒त त्या दैव्या॑ भि॒षजा᳚ । शं न॑स्करतो अ॒श्विना᳚ । यू॒याता॑-म॒स्मद्रपः॑ । अप॒ स्रिधः॑ ॥ शम॒ग्नि-र॒ग्निभि॑स्करत् । शं न॑स्तपतु॒ सूर्यः॑ । शं ॅवातो॑ वात्वर॒पाः
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)
3.7.10.6
अप॒ स्रिधः॑ ॥ तदित्प॒दं न विचि॑केत वि॒द्वान् । यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद् भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तः स जी॑वात् ॥ प्रत्य॑स्मै॒ पिपी॑षते । वि॒श्वा॑नि वि॒दुषे॑ भर । अ॒रं॒ ग॒माय॒ जग्म॑वे । अप॑श्चाद्दध्वने॒ नरे᳚ (ओर् अप॑श्चाद्दघ्वने॒ नरे᳚) ॥ इन्दु॒रिन्दु॒म-वा॑गात् ( ) । इन्दो॒रिन्द्रो॑-ऽपात् । तस्य॑ त इन्द॒विन्द्र॑-पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ।
कोर्वै (Index)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च)