TB 3.7.4

18 पञ्चाशत्

3.7.4 अनुवाकं 4 -ऐष्टिकयाजमानमन्त्राः

3.7.4.1
याः पु॒रस्ता᳚त् प्र॒स्रव॑न्ति । उ॒परि॑ष्टाथ् स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धां ॅय॒ज्ञ्मार॑भे ॥ देवा॑ गातुविदः । गा॒तुं ॅय॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाता᳚द्-य॒ज्ञ्ः प्रयु॑ज्यतां ॥ तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.2
सो॒म॒पी॒थाय॒ संन॑यितुं । वक॑ल॒-मन्त॑र॒माद॑दे ॥ आपो॑ देवीः शु॒द्धाः स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वानां᳚ । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ॥ पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे᳚ ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पयः सोमं॑ करोत्वि॒मं ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.3
अ॒ग्निं गृ॑ह्णामि सु॒रथं॒ ॅयो म॑यो॒ भूः । य उ॒द्यन्त॑मा॒ रोह॑ति॒ सूर्य॒मह्ने᳚ । आ॒दि॒त्यं ज्योति॑षां॒ ज्योति॑रुत्त॒मं । श्वो य॒ज्ञाय॑ रमतां दे॒वता᳚भ्यः ॥वसू᳚न् रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः᳚ । ताः पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒मामूर्जं॑ पञ्चद॒शीं ॅये प्रवि॑ष्टाः । तान्दे॒वान् परि॑गृह्णामि॒ पूर्वः॑
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.4
अ॒ग्निर्. ह॑व्य॒वाडि॒ह तानाव॑हतु । पौ॒र्ण॒मा॒सꣳ ह॒विरि॒दमे॑षां॒ मयि॑ । आ॒मा॒वा॒स्यꣳ॑ ह॒विरि॒दमे॑षां॒ मयि॑ ॥ अ॒न्त॒राऽग्नी प॒शवः॑ । दे॒व॒सꣳ॒॒ सद॒माग॑मन्न् । तान् पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्तां । अ॒ग्निं गृ॒हप॑तिम॒भि स॒म्ॅवसा॑नाः । ताः पूर्वः॒ परि॑गृह्णामि
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.5
स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्तां । अ॒ग्निं गृ॒हप॑तिम॒भि स॒म्ॅवसा॑नाः । तान् पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ ॥ अ॒यं पि॑तृ॒णाम॒ग्निः । अवा᳚ड्ढ॒व्या पि॒तृभ्य॒ आ । तं पूर्वः॒ परि॑गृह्णामि । अवि॑षं नः पि॒तुं क॑रत् ॥ अज॑स्रं॒ त्वाꣳ स॑भापा॒लाः
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.6
वि॒ज॒यभा॑गꣳ॒॒ समि॑न्धतां । अग्ने॑ दी॒दाय॑ मे सभ्य । विजि॑त्यै श॒रदः॑ श॒तं ॥ अन्न॑मावस॒थीयं᳚ । अ॒भिह॑राणि श॒रदः॑ श॒तं । आ॒व॒स॒थे श्रियं॒ मन्त्रं᳚ । अहि॑र्बु॒द्ध्नियो॒ निय॑च्छतु ॥ इ॒दम॒ह-म॒ग्नि ज्ये᳚ष्ठेभ्यः । वसु॑भ्यो य॒ज्ञ्ं प्रब्र॑वीमि । इ॒दम॒ह-मिन्द्र॑ ज्येष्ठेभ्यः
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.7
रु॒द्रेभ्यो॑ य॒ज्ञ्ं प्रब्र॑वीमि । इ॒दम॒हं ॅवरु॑ण-ज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञ्ं प्रब्र॑वीमि ॥ पय॑स्वती॒-रोष॑धयः । पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ सꣳसृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.8
व्र॒तानां᳚ ॅव्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां ॥ इ॒मां प्राची॒मुदी॑चीं । इष॒मूर्ज॑म॒भि सꣳस्कृ॑तां । ब॒हु॒प॒र्णामशु॑ष्काग्रां । हरा॑मि पशु॒पाम॒हं ॥ यत्कृष्णो॑ रू॒पं कृ॒त्वा । प्रावि॑श॒स्त्वं ॅवन॒स्पतीन्॑ । तत॒स्त्वामे॑कविꣳशति॒धा । संभ॑रामि सुसं॒भृता᳚ ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.9
त्रीन् प॑रि॒धीꣳस्ति॒स्रः स॒मिधः॑ । य॒ज्ञायु॑रनुसंच॒रान् । उ॒प॒वे॒षं मेक्ष॑णं॒ धृष्टिं᳚ । संभ॑रामि सुस॒भृंता᳚ ॥ या जा॒ता ओष॑धयः । दे॒वेभ्य॑ स्त्रियु॒गं पु॒रा । तासां॒ पर्व॑ राद्ध्यासं । प॒रि॒स्त॒र-मा॒हरन्न्॑ ॥ अ॒पां मेद्ध्यं॑ ॅय॒ज्ञियं᳚ । सदे॑वꣳ शि॒वम॑स्तु मे
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.10
आ॒च्छे॒त्ता वो॒ मा रि॑षं । जीवा॑नि श॒रदः॑ श॒तं ॥ अप॑रिमितानां॒ परि॑मिताः । संन॑ह्ये सुकृ॒ताय॒कं । एनो॒ मा निगां᳚ कत॒मच्च॒ नाहं । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ॥ स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒.हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हं । अ॒स्मिन् थ्सी॑दन्तु मे पि॒तरः॑ सो॒म्याः । पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैः स॒ह ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.11
त्रि॒वृत् प॑ला॒शे द॒र्भः । इया᳚न् प्रादे॒श स॑मिंतः । य॒ज्ञे प॒वित्रं॒ पोतृ॑तमं । पयो॑ ह॒व्यं क॑रोतु मे ॥ इ॒मौ प्रा॑णापा॒नौ । य॒ज्ञ्स्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ संच॑रतां । प॒वित्रे॑ हव्य॒शोध॑ने ॥ प॒वित्रे᳚ स्थो वैष्ण॒वी । वा॒युर्वां॒ मन॑सा पुनातु ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.12
अ॒यं प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒-मपि॑गच्छतां । य॒ज्ञे ह्यभू॑तां॒ पोता॑रौ । प॒वित्रे॑ हव्य॒शोध॑ने ॥ त्वया॒ वेदिं॑ ॅविविदुः पृथि॒वीं । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रं ॅय॒ज्ञ्मन्वे॑षि वि॒द्वान् । त्वया॒ होता॒ सन्त॑नोत्यर्द्धमा॒सान् ॥ त्र॒य॒स्त्रिꣳ॒॒शो॑ऽसि॒ तन्तू॑नां । प॒वित्रे॑ण स॒हाग॑हि
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.13
शि॒वेयꣳ रज्जु॑रभि॒धानी᳚ । अ॒घ्नि॒या-मुप॑सेवतां ॥ अप्र॑स्रꣳसाय य॒ज्ञ्स्य॑ । उ॒खे उप॑दधाम्य॒हं । प॒शुभिः॒ संनी॑तं बिभृतां । इन्द्रा॑य शृ॒तं दधि॑ ॥ उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वां प॑रिवे॒ष-म॑धारयन्न् । इन्द्रा॑य ह॒विः कृ॒ण्वन्तः॑ । शि॒वः श॒ग्मो भ॑वासि नः ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.14
अमृ॑न्मयं देवपा॒त्रं । य॒ज्ञ्स्यायु॑षि॒ प्रयु॑ज्यतां । ति॒रः॒ प॒वि॒त्रमति॑नीताः । आपो॑ धारय॒ माऽति॑गुः ॥ दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ । गां दो॑हपवि॒त्रे रज्जुं᳚ । सर्वा॒ पात्रा॑णि शुन्धत ॥ ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः । प्र॒जाव॑ती-र्य॒शसो॑ वि॒श्वरू॑पाः
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.15
ब॒ह्वी र्भव॑न्ती॒रुप॒ जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः ॥ पू॒षा स्थ॑ ॥ अ॒य॒क्ष्मा वः॑ प्र॒जया॒ सꣳसृ॑जामि । रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीः । ऊर्जं॒ पयः॒ पिन्व॑माना घृ॒तं च॑ । जी॒वो जीव॑न्ती॒रुप॑ वः सदेयं ॥ द्यौश्चे॒मं ॅय॒ज्ञ्ं पृ॑थि॒वी च॒ संदु॑हातां । धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णं दधातु ।
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.16
उथ्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलं । इडां᳚ दे॒वीं मधु॑मतीꣳ सुव॒र्विदं᳚ । तदि॑न्द्रा॒ग्नी जि॑न्वतꣳ सू॒नृता॑वत् । तद्-यज॑मान-ममृत॒त्वे द॑धातु ॥ काम॑धुक्षः॒ प्रणो᳚ ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यं ॥ अ॒मूं ॅयस्यां᳚ दे॒वानां᳚ । म॒नु॒ष्या॑णां॒ पयो॑ हि॒तं ॥ ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ । ह॒व्य-माप्या॑यतां॒ पुनः॑
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.17
व॒थ्सेभ्यो॑ मनु॒ष्ये᳚भ्यः । पु॒न॒र्दो॒हाय॑ कल्पतां ॥ य॒ज्ञ्स्य॒ सन्त॑तिरसि । य॒ज्ञ्स्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ॥ अद॑स्तमसि॒ विष्ण॑वे त्वा । य॒ज्ञायापि॑ दधाम्य॒हं । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । याः पू॒ताः प॑रि॒शेर॑ते ॥ अ॒यं पयः॒ सोमं॑ कृ॒त्वा । स्वां ॅयोनि॒-मपि॑गच्छतु
कोर्वै (Index)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुंता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शुन् ( ) ]
3.7.4.18
प॒र्ण॒व॒ल्कः प॒वित्रं᳚ । सौ॒म्यः सोमा॒द्धि निर्मि॑तः ॥ इ॒मौ प॒र्णं च॑ द॒र्भं च॑ । दे॒वानाꣳ॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्यꣳ हि रक्ष॑सि ॥ उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒हं ग्रा॒म्या-नुप॑वसामि । मह्यं॒ गोप॑तये प॒शून् ( ) ।