यद॒स्य पा॒रे रज॑सः । शु॒क्रं ज्योति॒-रजा॑यत । तन्नः॑ पर्.ष॒दति॒ द्विषः॑ । अग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥ यस्मा᳚द्भी॒षा-ऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑यं कृधि । प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ यस्मा᳚द्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यं कृधि
कोर्वै (Index)
(कृ॒धि॒ - मी॒ढुषे - ऽहु॑तस्य च स॒प्त च॑)