TB 3.7.9

9 पञ्चाशत्

3.7.9 अनुवाकं 9 -उपांश्वभिषवा मन्त्राः

3.7.9.1
अ॒ना॒गस॑स्त्वा व॒यं । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वꣳश॒भूः । मि॒त्रस्ते॑ अस्त्वꣳश॒भूः । वरु॑णस्ते अस्त्वꣳश॒भूः ॥ अपां᳚ क्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपाः॒ श्येना॑ अतिथयः । पर्व॑तानां ककुभः प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्रꣳ॑ ह्वयत । घोषे॒णामी॑-वाꣳश्चातयत
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.2
यु॒क्ताः स्थ॒ वह॑त ॥ दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवुः पर॒मस्याः᳚ परा॒वत॑: । आऽस्माथ् स॒धस्था᳚त् । ओरोर॒न्तरि॑क्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सं म॒ आऽसु॑षवुः । स॒म॒रे रक्षाꣳ॑स्यवधिषुः । अप॑हतं ब्रह्म॒ज्यस्य॑ ॥ वाक्च॑ त्वा॒ मन॑श्च श्रिणीतां
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.3
प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीतां । चक्षु॑श्च त्वा॒ श्रोत्रं॑ च श्रीणीतां । दक्ष॑श्च त्वा॒ बलं॑ च श्रीणीतां । ओज॑श्च त्वा॒ सह॑श्च श्रीणीतां । आयु॑श्च त्वा ज॒रा च॑ श्रीणीतां । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीतां । शृ॒तो॑ऽसि शृ॒तं कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ॥ यमिन्द्र॑मा॒हु र्वरु॑णं॒ ॅयमा॒हुः । यं मि॒त्रमा॒हुर् यमु॑ स॒त्यमा॒हुः
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.4
यो दे॒वानां᳚ दे॒वत॑मस्तपो॒जाः । तस्मै᳚ त्वा॒ तेभ्य॑स्त्वा ॥ मयि॒ त्यदि॑न्द्रि॒यं म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्यं᳚ । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । तस्य॒ दोह॑मशीमहि
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.5
तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥ “मि॒त्रो जना॒न्{4}“ “प्र स मि॑त्र{5}“ ॥ यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ । प्र॒जाप॑तिः प्र॒जया॑ सम्ॅविदा॒नः । त्रीणि॒ ज्योतीꣳ॑षि सचते॒ स षो॑ड॒शी ॥ ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ।
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.6
प्र ते॑ म॒हे वि॒दथे॑ ऽशꣳसिषꣳ॒॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तं मदं᳚ ॥ इन्द्रो॒ नाम॑ घृ॒तं न यः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒गिंरः॑ ॥ इन्द्राधि॑प॒ते-ऽधि॑पति॒स्त्वं दे॒वाना॑मसि । अधि॑पतिं॒ मां । आयु॑ष्मन्तं॒ ॅवर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु ।
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.7
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा᳚ । तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तं । तयो॒रनु॑ भ॒क्षं भ॑क्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥ प्र॒जाप॑ति र्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वं ॅय॒ज्ञेन॑ राद्ध्यासं । अ॒र्थे॒ गा अ॒स्य ज॑हितः । अ॒व॒सान॑पते-ऽव॒सानं॑ मे विन्द ॥ नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.8
उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ तꣳ हु॑वे ॥ यान्य॑पा॒मित्या॒-न्यप्र॑तीत्ता॒-न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्तः॒ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ॥ अ॒नृ॒णा अ॒स्मिन्न॑-नृ॒णाः पर॑स्मिन्न् । तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः᳚
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)
3.7.9.9
सर्वा᳚न् प॒थो अ॑नृ॒णा आक्षी॑येम ॥ इ॒दमू॒ नु श्रेयो॑-ऽव॒सान॒-माग॑न्म । शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑-व॒दश्व॑व॒-दूर्ज॑स्वत् । सु॒वीरा॑ वी॒रैरनु॒ संच॑रेम ॥ अ॒र्कः प॒वित्रꣳ॒॒ रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । द्यावा॑पृथि॒वी पय॑सा सम्ॅविदा॒ने । घृ॒तं दु॑हाते अ॒मृतं॒ प्रपी॑ने ॥ प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ( ) । पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । सुव॒ र्ज्योति॒ र्यशो॑ म॒हत् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां ।
कोर्वै (Index)
(चा॒त॒य॒त॒ - श्री॒णी॒ताꣳ॒॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च)