परि॑स्तृणीत॒ परि॑धत्ता॒ग्निं । परि॑हितो॒-ऽग्नि र्यज॑मानं भुनक्तु । अ॒पाꣳ रस॒ ओष॑धीनाꣳ सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः᳚ । अ॒मुत्रा॒मुष्मि॑न् ॅलो॒के ॥ भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माणं॑ त्वा वृणीमहे ॥ अ॒हं भूप॑तिर॒हं भुव॑नपतिः । अ॒हं म॑ह॒तो भू॒तस्य॒ पतिः॑
कोर्वै (Index)
(पतिः॑ - प्र॒जाप॑तये - तप॒स्वी - वा॒चा - सौभ॑गाय - प॒शून्मे॑ पिन्वस्व - दुर्मरा॒युं - दे॑व॒याना॑ - नग्ने॒ - ऽन्तरि॑क्षे॒ऽहमुत्त॑रो भूयासं -प्र॒जाप॑तिरसि स॒र्वतः॑ श्रि॒तः - प्रवि॑ष्टं - दे॒वता॑भिर् - वाज॒जितं॑ -
पृथि॒वी ह्व॑यताम॒ग्निराग्नी᳚द्ध्राद् - वृश्चत - ससृ॒वाꣳसꣳ॑ - हु॒ते - स्यो॒नेन॑ मे॒ सम्ति॑ष्ठस्वे॒ - तः - कृ॑धि- दध्म - स्यूहता - +म॒ष्टौ च॑)