TB 3.7.13

4 पञ्चाशत्

3.7.13 अनुवाकं 13 -अवभृथे कर्मणि ऋजीषप्रोक्षणमन्त्राः

3.7.13.1
यत्ते॒ ग्राव्.ण्णा॑ चिच्छि॒दुः सो॑म राजन्न् । प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूꣳ॑षि । तथ्संध॒थ् स्वाज्ये॑नो॒त व॑र्द्धयस्व । अ॒ना॒गसो॒ अध॒मिथ्स॒क्षंये॑म ॥ यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः । नरो॒ यत्ते॑ दुदु॒हु र्दक्षि॑णेन । तत्त॒ आप्या॑यतां॒ तत्ते᳚ । निष्ट्या॑यतां देव सोम ॥ यत्ते॒ त्वचं॑ बिभि॒दुर्यच्च॒ योनिं᳚ । यदा॒स्थाना॒त् प्रच्यु॑तो॒ वेन॑सि॒ त्मना᳚
कोर्वै (Index)
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒त् पञ्च॑ च)
3.7.13.2
त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः । सा नः॑ स॒धां-ऽस॑त्पर॒मे व्यो॑मन्न् ॥ अहा॒च्छरी॑रं॒ पय॑सा स॒मेत्य॑ । अ॒न्यो᳚ऽन्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न् व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ॥ नृ॒चक्षाः॒ सोम॑ उ॒त शु॒श्रुग॑स्तु । मा नो॒ विहा॑सी॒द्गिर॑ आवृणा॒नः । अना॑गा-स्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पं ॅव॑हतु॒ जाय॑मानः ।
कोर्वै (Index)
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒त् पञ्च॑ च)
3.7.13.3
उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्द्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्थ् सुकृ॒ते ह्व॑यस्व ॥ सं प्रा॑णापा॒नाभ्याꣳ॒॒ समु॒ चक्षु॑षा॒ त्वं । सꣳ श्रोत्रे॑ण गच्छस्व सोम राजन्न् । यत्त॒ आस्थि॑तꣳ॒॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्नः॑ स॒गंम॑ने पथी॒नां ॥ ए॒तं जा॑नीतात्पर॒मे व्यो॑मन्न् । वृकाः᳚ सधस्था वि॒द रू॒पम॑स्य
कोर्वै (Index)
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒त् पञ्च॑ च)
3.7.13.4
यदा॒गच्छा᳚त् प॒थिभि॑ र्देव॒यानैः᳚ । इ॒ष्टा॒पू॒र्ते कृ॑णुता-दा॒विर॑स्मै ॥ अरि॑ष्टो राजन्नग॒दः परे॑हि । नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्यं॑ गच्छतात्पर॒मे व्यो॑मन्न् ॥ अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ ॅयथा॒ दध॑त् ( ) ॥ उप॑ नो मित्रावरुणा-वि॒हाव॑तं । अ॒न्वादी᳚द्ध्या-थामि॒ह नः॑ सखाया । आ॒दि॒त्यानां॒ प्रसि॑तिर्. हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒विषा॒ परि॑णो वृणक्तु ॥ “आप्या॑यस्व॒{20}” “सं ते᳚{21}” ।
कोर्वै (Index)
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒त् पञ्च॑ च)