TB 3.7.14

5 पञ्चाशत्

3.7.14 अनुवाकं 14 -अवभृथे कर्मणि सेचनादिमन्त्राः

3.7.14.1
यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा᳚ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण । यद्रेत॑सा मिथु॒नेना-प्या॒त्मना᳚ । अ॒द्भ्यो लो॒का द॑धि॒रे तेज॑ इन्द्रि॒यं । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥ यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नां चर्म॑न्. ह॒विषा॑ दिदी॒क्षे । यच्छन्दो॑भि॒-रोष॑धीभि॒-र्वन॒स्पतौ᳚ । अ॒द्भ्यो लो॒का द॑धि॒रे (द॑धिरे॒) तेज॑ इन्द्रि॒यं
कोर्वै (Index)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च)
3.7.14.2
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥ येन॒ ब्रह्म॒ येन॑ क्ष॒त्रं । येने᳚न्द्रा॒ग्नी प्र॒जाप॑तिः॒ सोमो॒ वरु॑णो॒ येन॒ राजा᳚ । विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥ अ॒पां पुष्प॑म॒स्यो-ष॑धीनाꣳ॒॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑
कोर्वै (Index)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च)
3.7.14.3
अ॒ग्नेः प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ ॥ अ॒पां पुष्प॑-म॒स्योष॑धीनाꣳ॒॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ । इन्द्र॑स्य प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ । अ॒पां पुष्प॑म॒स्यो-ष॑धीनाꣳ॒॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ । विश्वे॑षां दे॒वानां᳚ प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ ॥ व॒यꣳ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ।
कोर्वै (Index)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च)
3.7.14.4
दे॒वेभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । सो॒म्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । क॒व्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ ॥ देवा॑स इ॒ह मा॑दयद्ध्वं । सोम्या॑स इ॒ह मा॑दयद्ध्वं । कव्या॑स इ॒ह मा॑दयद्ध्वं ॥ अन॑न्तरिताः पि॒तरः॑ सो॒म्याः सो॑मपी॒थात् ॥ अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आगन्न्॑ । वै॒व॒स्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं ॅवन॒स्पते॑रिव
कोर्वै (Index)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च)
3.7.14.5
अ॒भि नः॑ शीयताꣳ र॒यिः । सच॑तां नः॒ शची॒पतिः॑ ॥ परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां᳚ । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥ इ॒दमू॒ नु श्रेयो॑ऽव॒सान॒-माग॑न्म । यद्गो॒जिद्-ध॑न॒जि-द॑श्व॒जिद्यत् । प॒र्णं ॅवन॒स्पते॑रिव । अ॒भि नः॑ शीयताꣳ र॒यिः ( ) । सच॑तां नः॒ शची॒पतिः॑ ।
कोर्वै (Index)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च)