प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.13.3 TS 1.2.13.3
दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ ॅवी॒र्या॑णि॒ प्र वो॑चं॒ ॅयः पार्त्थि॑वानि विम॒मे रजाꣳ॑सि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ ॅविचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥
पदपाठः (Word-by-word)
दक्षि॑णात् । एति॑ । उ॒त । स॒व्यात् ॥ विष्णोः᳚ । नुक᳚म् । वी॒र्या॑णि । प्रेति॑ । वो॒च॒म् । यः । पार्थि॑वानि । वि॒म॒म इति॑ वि - म॒मे । रजाꣳ॑सि । यः । अस्क॑भायत् । उत्त॑र॒मित्युत् - त॒र॒म् । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । वि॒च॒क्र॒मा॒ण इति॑ वि - च॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒गा॒य इत्यु॑रु - गा॒यः । विष्णोः᳚ । र॒राट᳚म् । अ॒सि॒ । विष्णोः᳚ । पृ॒ष्ठम् । अ॒सि॒ । विष्णोः᳚ । श्नप्त्रे॒ इति॑ । स्थः॒ । विष्णोः᳚ । स्यूः । अ॒सि॒ । विष्णोः᳚ । ध्रु॒वम् । अ॒सि॒ । वै॒ष्ण॒वम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ ॥
पदसंख्या: 39