ते॑ऽशीय॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञ्स्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयं ॅय॒ज्ञो दिवꣳ॑ रोहतु य॒ज्ञो दिवं॑ गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाꣳ अप्ये᳚त्व॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नो - [ ]
पदपाठः (Word-by-word)
ते॒ । अ॒शी॒य॒ । सा । मे॒ । स॒त्या । आ॒शीरित्या᳚ - शीः । अ॒स्य । य॒ज्ञ्स्य॑ । भू॒या॒त् । अरे॑डता । मन॑सा । तत् । श॒के॒य॒म् । य॒ज्ञ्ः । दिव᳚म् । रो॒ह॒तु॒ । य॒ज्ञ्ः । दिव᳚म् । ग॒च्छ॒तु॒ । यः । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः᳚ । तेन॑ । य॒ज्ञ्ः । दे॒वान् । अपीति॑ । ए॒तु॒ । अ॒स्मासु॑ । इन्द्रः॑ । इ॒न्द्रि॒यम् । द॒धा॒तु॒ । अ॒स्मान् । रायः॑ । उ॒त । य॒ज्ञाः । स॒च॒न्ता॒म् । अ॒स्मासु॑ । स॒न्तु॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । सा । नः॒ । प्रि॒या । सु॒प्रतू᳚र्ति॒रिति॑ सु - प्रतू᳚र्तिः । म॒घोनी᳚ । जुष्टिः॑ । अ॒सि॒ । जु॒षस्व॑ । नः॒ । जुष्टा᳚ । नः॒ ।