प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.5.2 TS 1.6.5.2
दि॒शि मासाः᳚ पि॒तरो॑ मार्जयन्तां प्र॒तीच्यां᳚ दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदी᳚च्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्द्ध्वायां᳚ दि॒शि य॒ज्ञ्ः सं॑ॅवथ्स॒रो य॒ज्ञ्प॑तिर् मार्जयन्तां॒ ॅविष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ॥
पदपाठः (Word-by-word)
दि॒शि । मासाः᳚ । पि॒तरः॑ । मा॒र्ज॒य॒न्ता॒म् । प्र॒तीच्या᳚म् । दि॒शि । गृ॒हाः । प॒शवः॑ । मा॒र्ज॒य॒न्ता॒म् । उदी᳚च्याम् । दि॒शि । आपः॑ । ओष॑धयः । वन॒स्पत॑यः । मा॒र्ज॒य॒न्ता॒म् । ऊ॒द्‌र्ध्वाया᳚म् । दि॒शि । य॒ज्ञ्ः । सम्ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । मा॒र्ज॒य॒न्ता॒म् । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । गा॒य॒त्रेण॑ । छन्द॑सा । पृ॒थि॒वीम् । अनु॑ । वीति॑ । क्र॒मे॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा । त्रैष्टु॑भेन । छन्द॑सा । अ॒न्तरि॑क्षम् । अनु॑ । वीति॑ । क्र॒मे॒ । निर्भ॑क्त॒ इति॒ निः-भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णोः᳚ ( ) । क्रमः॑ । अ॒सि॒ । अ॒रा॒ती॒य॒तः । ह॒न्ता । जाग॑तेन । छन्द॑सा । दिव᳚म् । अनु॑ । वीति॑ । क्र॒मे॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णाः᳚ । क्रमः॑ । अ॒सि॒ । श॒त्रू॒य॒त इति॑ शत्रु - य॒तः । ह॒न्ता । आनु॑ष्टुभे॒नेत्यानु॑ - स्थु॒भे॒न॒ । छन्द॑सा । दिशः॑ । अनु॑ । वीति॑ । क्र॒मे॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः ॥
पदसंख्या: 79