शन्त॑मेन॒ तया॑ दे॒व॑तयाऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ॥ राज्ञ्य॑सि॒ प्राची॒ दिग्-वि॒राड॑सि दक्षि॒णा दिख् स॒म्राड॑सि प्र॒तीची॒ दिख्-स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ मनो॑ मे जिन्व॒ वाचं॑ मे पिन्वा॒ ( ) ऽऽत्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥
पदपाठः (Word-by-word)
शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ । तया᳚ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॒द॒ ॥ राज्ञी᳚ । अ॒सि॒ । प्राची᳚ । दिक् । वि॒राडिति॑ वि-राट् । अ॒सि॒ । द॒क्षि॒णा । दिक् । स॒म्राडिति॑ सं - राट् । अ॒सि॒ । प्र॒तीची᳚ । दिक् । स्व॒राडिति॑ स्व - राट् । अ॒सि॒ । उदी॑ची । दिक् । अधि॑प॒त्नीत्यधि॑-प॒त्नी॒ । अ॒सि॒ । बृ॒ह॒ती । दिक् । आयुः॑ । मे॒ । पा॒हि॒ । प्रा॒णमिति॑ प्र - अ॒नम् । मे॒ । पा॒हि॒ । अ॒पा॒नमित्य॑प - अ॒नम् । मे॒ । पा॒हि॒ । व्या॒नमिति॑ वि - अ॒नम् । मे॒ । पा॒हि॒ । चक्षुः॑ । मे॒ । पा॒हि॒ । श्रोत्र᳚म् । मे॒ । पा॒हि॒ । मनः॑ । मे॒ । जि॒न्व॒ । वाच᳚म् । मे॒ । पि॒न्व॒ ( ) । आ॒त्मान᳚म् । मे॒ । पा॒हि॒ । ज्योतिः॑ । मे॒ । य॒च्छ॒ ॥