रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पाथ् स्पृ॒तं च॑तुर्विꣳ॒॒शः स्तोम॑ आदि॒त्यानां᳚ भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भाः᳚ स्पृ॒ताः प॑ञ्चविꣳ॒॒शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्यꣳ स॒मीची॒र्दिशः॑ स्पृ॒ताश्च॑तुष्टो॒मः स्तोमो॒ यावा॑नां भा॒गो᳚ऽस्यया॑वाना॒माधि॑पत्यं प्र॒जाः स्पृ॒ता-श्च॑तु-श्चत्वारिꣳ॒॒शः स्तोम॑ ऋभू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तं निशा᳚न्तꣳ स्पृ॒तं त्र॑यस्त्रिꣳ॒॒शः स्तोमः॑ ॥
पदपाठः (Word-by-word)
रु॒द्राणा᳚म् । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । चतु॑ष्पा॒दिति॒ चतुः॑-पा॒त् । स्पृ॒तम् । च॒तु॒र्विꣳ॒॒श इति॑ चतुः-विꣳ॒॒शः । स्तोमः॑ । आ॒दि॒त्याना᳚म् । भा॒गः । अ॒सि॒ । म॒रुता᳚म् । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । गर्भाः᳚ । स्पृ॒ताः । प॒ञ्च॒विꣳ॒॒श इति॑ पञ्च - विꣳ॒॒शः । स्तोमः॑ । दे॒वस्य॑ । स॒वि॒तुः । भा॒गः । अ॒सि॒ । बृह॒स्पतेः᳚ । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । स॒मीचीः᳚ । दिशः॑ । स्पृ॒ताः । च॒तु॒ष्टो॒म इति॑ चतुः-स्तो॒मः । स्तोमः॑ । यावा॑नाम् । भा॒गः । अ॒सि॒ । अया॑वानाम् । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । प्र॒जा इति॑ प्र - जाः । स्पृ॒ताः । च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । स्तोमः॑ । ऋ॒भू॒णाम् । भा॒गः । अ॒सि॒ । विश्वे॑षाम् । दे॒वाना᳚म् । आधि॑पत्य॒मित्याधि॑-प॒त्य॒म् । भू॒तम् । निशा᳚न्त॒मिति॒ नि - शा॒न्त॒म् । स्पृ॒तम् । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । स्तोमः॑ ॥