प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.3.12.2 TS 5.3.12.2
तरति॒ तर॑ति ब्रह्मह॒त्यां ॅयो᳚ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं ॅवेदोत्त॑रं॒ ॅवै तत् प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो᳚ऽन्येषां᳚ पशू॒नां ॅवै॑त॒सः कटो॑ भवत्य॒फ्सुयो॑नि॒र्वा अश्वो᳚ऽफ्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ ॅयोनौ॒ प्रति॑ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्याऽवृ॑ह॒त् ( ) तद्-दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥
पदपाठः (Word-by-word)
त॒र॒ति॒ । तर॑ति । ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् । यः । अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । यज॑ते । यः । उ॒ । च॒ । ए॒न॒म् । ए॒वम् । वेद॑ । उत्त॑र॒मित्युत् - त॒र॒म् । वै । तत् । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । अक्षि॑ । अ॒श्व॒य॒त् । तस्मा᳚त् । अश्व॑स्य । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । अवेति॑ । द्य॒न्ति॒ । द॒क्षि॒ण॒तः । अ॒न्येषा᳚म् । प॒शू॒नाम् । वै॒त॒सः । कटः॑ । भ॒व॒ति॒ । अ॒फ्सुयो॑नि॒रित्य॒फ्सु - यो॒निः॒ । वै । अश्वः॑ । अ॒फ्सु॒ज इत्य॑फ्सु - जः । वे॒त॒सः । स्वे । ए॒व । ए॒न॒म् । योनौ᳚ । प्रतीति॑ । स्था॒प॒य॒ति॒ । च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । स्तोमः॑ । भ॒व॒ति॒ । स॒रट् । ह॒ । वै । अश्व॑स्य । सक्थि॑ । एति॑ । अ॒वृ॒ह॒त् ( ) । तत् । दे॒वाः । च॒तु॒ष्टो॒मेनेति॑ चतुः-स्तो॒मेन॑ । ए॒व । प्रतीति॑ । अ॒द॒धुः॒ । यत् । च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । स्तोमः॑ । भव॑ति । अश्व॑स्य । स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ ॥
पदसंख्या: 62