लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्रवि॑शति॒ नाऽऽ*र्ति॒मार्च्छ॑त्य॒ग्निं चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि-॑र्लो॒कान् ज्योति॑ष्मतः कुरु॒तेऽथो᳚ प्रा॒णाने॒वैता यज॑मानस्य दाद्ध्रत्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या᳚स्ता ए॒वा- ( ) -न्वा॒रभ्य॑ सुव॒र्गं ॅलो॒कमे॑ति ॥
पदपाठः (Word-by-word)
लो॒कम् । ए॒ति॒ । गच्छ॑ति । प्र॒का॒शमिति॑ प्र-का॒शम् । चि॒त्रम् । ए॒व । भ॒व॒ति॒ । म॒ण्ड॒ले॒ष्ट॒का इति॑ मण्डल - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । इ॒मे । वै । लो॒काः । म॒ण्ड॒ले॒ष्ट॒का इति॑ मण्डल - इ॒ष्ट॒काः । इ॒मे । खलु॑ । वै । लो॒काः । दे॒व॒पु॒रा इति॑ देव-पु॒राः । दे॒व॒पु॒रा इति॑-पु॒राः । ए॒व । प्रेति॑ । वि॒श॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अ॒ग्निम् । चि॒क्या॒नः । वि॒श्वज्यो॑तिष॒ इति॑ वि॒श्व - ज्यो॒ति॒षः॒ । उपेति॑ । द॒धा॒ति॒ । इ॒मान् । ए॒व । एताभिः॑ । लो॒कान् । ज्योति॑ष्मतः । कु॒रु॒ते॒ । अथो॒ इति॑ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । ए॒ताः । यज॑मानस्य । दा॒द्ध्र॒ति॒ । ए॒ताः । वै । दे॒वताः᳚ । सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । ताः । ए॒व ( ) । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ ॥