प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.14.3 TS 1.2.14.3
जानाति सुम॒तिं ॅय॑विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒-र्यस्त्वा॒ नित्ये॑न ह॒विषा॒य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्-सन्ते॑ वा॒ वा ता॑ जरता - [ ]
पदपाठः (Word-by-word)
जा॒ना॒ति॒ । सु॒म॒तिमिति॑ सु - म॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ॥ विश्वा॑नि । अ॒स्मै॒ । सु॒दिना॒नीति॑ सु - दिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वीति॑ । दुरः॑ । अ॒भीति॑ । द्यौ॒त् ॥ सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒भग॒ इति॑ सु - भगः॑ । सु॒दानु॒रिति॑ सु - दानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा᳚ । यः । उ॒क्थैः ॥ पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒ण इति॑ दुः - ओ॒ने । विश्वा᳚ । इत् । अ॒स्मै॒ । सु॒दिनेति॑ सु- दिना᳚ । सा । अस॑त् । इ॒ष्टिः ॥ अर्चा॑मि । ते॒ । सु॒म॒तिमिति॑ सु - म॒तिम् । घोषि॑ । अ॒र्वाक् । समिति॑ । ते॒ । वा॒वाता᳚ । ज॒र॒तां॒ ।
पदसंख्या: 50