प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.14.4 TS 1.2.14.4
मि॒यंगीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳस॒मनु॒ द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नां ॥ यस्त्वा॒-स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता-भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत् ॥ म॒हो रु॑जामि - [ ]
पदपाठः (Word-by-word)
इ॒यम् । गीः ॥ स्वश्वा॒ इति॑ सु - अश्वाः᳚ । त्वा॒ । सु॒रथा॒ इति॑ सु - रथाः᳚ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अन्विति॑ । द्यून् ॥ इ॒ह । त्वा॒ । भूरि॑ । एति॑ । च॒रे॒त् । उपेति॑ । त्‍मन्न् । दोषा॑वस्त॒रिति॒ दोषा᳚ - व॒स्तः॒ । दी॒दि॒वाꣳस᳚म् । अन्विति॑ । द्यून् ॥ क्रीड॑न्तः । त्वा॒ । सु॒मन॑स॒ इति॑ सु - मन॑सः । स॒पे॒म॒ । अ॒भीति॑ । द्यु॒म्ना । त॒स्थि॒वाꣳसः॑ । जना॑नाम् ॥ यः । त्वा॒ । स्वश्व॒ इति॑ सु - अश्वः॑ । सु॒हि॒र॒ण्य इति॑ सु - हि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒यातीत्यु॑प - याति॑ । वसु॑म॒तेति॒ वसु॑ - म॒ता॒ । रथे॑न ॥ तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा᳚ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥ म॒हः । रु॒जा॒मि॒ ।
पदसंख्या: 50