प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.14.5 TS 1.2.14.5
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द-न्वि॑याय । त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नज स्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒द्ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ - [ ]
पदपाठः (Word-by-word)
ब॒न्धुता᳚ । वचो॑भि॒रिति॒ वचः॑ - भिः॒ । तत् । मा॒ । पि॒तुः । गोत॑मात् । अन्विति॑ । इ॒या॒य॒ ॥ त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सु - क्र॒तो॒ । दमू॑नाः ॥ अस्व॑प्नज॒ इत्यस्व॑प्न - जः॒ । त॒रण॑यः । सु॒शेवा॒ इति॑ सु-शेवाः᳚ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ॥ ते । पा॒यवः॑ । स॒द्ध्रिय॑ञ्चः । नि॒षद्येति॑ नि - सद्य॑ । अग्ने᳚ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥ ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दु॒रि॒तादिति॑ दुः - इ॒तात् । अर॑क्षन्न् ॥ र॒रक्ष॑ । तान् । सु॒कृत॒ इति॑ सु - कृतः॑ । वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । दिफ्स॑न्तः । इत् । रि॒पवः॑ । न । ह॒ ।
पदसंख्या: 50