प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.2.14.6 TS 1.2.14.6
देभुः ॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑-स्त्वोता॒-स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑ । उ॒भा शꣳसा॑ सूदय सत्यताते-ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ ॅवा॒जिन॒माजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒-मुप॑यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒सनो॒ दिवा॒ - [ ]
पदपाठः (Word-by-word)
दे॒भुः॒ ॥ त्वया᳚ । व॒यम् । स॒ध॒न्य॑ इति॑ सध - न्यः॑ । त्वोताः᳚ । तव॑ । प्रणी॒तीति॒ प्र - नी॒ती॒ । अ॒श्या॒म॒ । वाजान्॑ ॥ उ॒भा । शꣳसा᳚ । सू॒द॒य॒ । स॒त्य॒ता॒त॒ इति॑ सत्य - ता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥ अ॒या । ते॒ । अ॒ग्ने॒ । स॒मिधेति॑ सं - इधा᳚ । वि॒धे॒म॒ । प्रतीति॑ । स्तोम᳚म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ॥ दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒म॒ह॒ इति॑ मित्र - म॒हः॒ । अ॒व॒द्यात् ॥ र॒क्षो॒हण॒मिति॑ रक्षः - हन᳚म् । वा॒जिन᳚म् । एति॑ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उपेति॑ । या॒मि॒ । शर्म॑ ॥ शिशा॑नः । अ॒ग्निः । क्रतु॑भि॒रिति॒ क्रतु॑ - भिः॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । सः । नः॒ । दिवा᳚ ।
पदसंख्या: 50