सरि॒षः पा॑तु॒नक्तं᳚ ॥ विज्योति॑षा बृह॒ता भा᳚त्य॒ग्नि-रा॒विर् विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर् मा॒याः स॑हते-दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥
पदपाठः (Word-by-word)
सः । रि॒षः । पा॒तु॒ । नक्त᳚म् ॥ वीति॑ । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒त्वेति॑ महि - त्वा ॥ प्रेति॑ । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दु॒रेवा॒ इति॑ दुः - एवाः᳚ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒निक्ष॒ इति॑ वि - निक्षे᳚ ॥ उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मायु॑धा॒ इति॑ ति॒ग्म - आ॒यु॒धाः॒ । रक्ष॑से । हन्त॒वै । उ॒ ॥ मदे᳚ । चि॒त् । अ॒स्य॒ । प्रेति॑ । रु॒ज॒न्ति॒ । भामाः᳚ । न । व॒र॒न्ते॒ । प॒रि॒बाध॒ इति॑ परि - बाधः॑ । अदे॑वीः ॥