वैनं॑ ॅयुनक्ति य॒ज्ञ्स्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन्. य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्. यन्मे॑ अग्ने अ॒स्य य॒ज्ञ्स्य॒ रिष्या॒दित्या॑ह य॒ज्ञ्स्यै॒व तथ्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति य॒ज्ञ्स्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्निहो॒त्र-मे॒ताभि॒र् व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञ्मु॒खं ॅवा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञ्मु॒ख ए॒व ब्रह्म॑ - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । यु॒न॒क्ति॒ । य॒ज्ञ्स्य॑ । वै । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । असु॑रान् । परेति॑ । अ॒भा॒व॒य॒न्न् । यत् । मे॒ । अ॒ग्ने॒ । अ॒स्य । य॒ज्ञ्स्य॑ । रिष्या᳚त् । इति॑ । आ॒ह॒ । य॒ज्ञ्स्य॑ । ए॒व । तत् । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । यज॑मानः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । भ्रातृ॑व्यान् । परेति॑ । भा॒व॒य॒ति॒ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । ए॒ताभिः॑ । व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । उपेति॑ । सा॒द॒ये॒त् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - म॒खम् । वै । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । ब्रह्म॑ । ए॒ताः । व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । ए॒व । ब्रह्म॑ ।