प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.10.3 TS 1.6.10.3
कुरुते संॅवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑ सादये॒द्-ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं परि॑ गृह्णाति दर्.शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र् व्याहृ॑तीभिर् ह॒वीꣳष्यासा॑दयेद् यज्ञ्मु॒खं ॅवै द॑र्.शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञ्मु॒ख ए॒व ब्रह्म॑ कुरुते संॅवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संॅवथ्स॒रं परि॑गृह्णाति॒ यद्वै य॒ज्ञ्स्य॒ साम्ना᳚ क्रि॒यते॑ रा॒ष्ट्रं - [ ]
पदपाठः (Word-by-word)
कु॒रु॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प॒र्याग॑त॒ इति॑ परि - आग॑ते । ए॒ताभिः॑ । ए॒व । उपेति॑ । सा॒द॒ये॒त् । ब्रह्म॑णा । ए॒व । उ॒भ॒यतः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । परीति॑ । गृ॒ह्णा॒ति॒ । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः । ए॒ताभिः॑ । व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । ह॒वीꣳषि॑ । एति॑ । सा॒द॒ये॒त् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । वै । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । ब्रह्म॑ । ए॒ताः । व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । ए॒व । ब्रह्म॑ । कु॒रु॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प॒र्याग॑त॒ इति॑ परि - आग॑ते । ए॒ताभिः॑ । ए॒व । एति॑ । सा॒द॒ये॒त् । ब्रह्म॑णा । ए॒व । उ॒भ॒यतः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । परीति॑ । गृ॒ह्णा॒ति॒ । यत् । वै । य॒ज्ञ्स्य॑ । साम्ना᳚ । क्रि॒यते᳚ । रा॒ष्ट्रम् ।
पदसंख्या: 50