ॅय॒ज्ञ्स्या॒-*शीर्ग॑च्छति॒ यदृ॒चा विशं॑ ॅय॒ज्ञ्स्या॒- *शीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नी-र॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दद्ध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा᳚ ब्राह्म॒णः साशी᳚र्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञ्स्या॒*शीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑यां दद्ध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोनुवा॒क्या᳚ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञ्स्या॒-[ ]
पदपाठः (Word-by-word)
य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यत् । ऋ॒चा । विश᳚म् । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । अथ॑ । ब्रा॒ह्म॒णः । अ॒ना॒शीर्के॑ण । य॒ज्ञेन॑ । य॒ज॒ते॒ । सा॒मि॒धे॒नीरिति॑ साम् - इ॒धे॒नीः । अ॒नु॒व॒क्ष्यन्नित्य॑नु - व॒क्ष्यन्न् । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रस्ता᳚त् । द॒द्ध्या॒त् । ब्रह्म॑ । ए॒व । प्र॒ति॒पद॒मिति॑ प्रति-पद᳚म् । कु॒रु॒ते॒ । तथा᳚ । ब्रा॒ह्म॒णः । साशी᳚र्के॒णेति॒ स -आ॒शी॒र्के॒ण॒ । य॒ज्ञेन॑ । य॒ज॒ते॒ । यम् । का॒मये॑त । यज॑मानम् । भ्रातृ॑व्यम् । अ॒स्य॒ । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छे॒त् । इति॑ । तस्य॑ । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रो॒नु॒वा॒क्या॑या॒मिति॑ पुरः - अ॒नु॒वा॒क्या॑याम् । द॒द्ध्या॒त् । भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । वै । पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ । भ्रातृ॑व्यम् । ए॒व । अ॒स्य॒ । य॒ज्ञ्स्य॑ ।