ऽऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ् स॒माव॑त्येनान् य॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोनुवा॒क्या॑या अर्द्ध॒र्च एकां᳚ दद्ध्याद्-या॒ज्या॑यै पु॒रस्ता॒देकां᳚ ॅया॒ज्या॑या अर्द्ध॒र्च एकां॒ तथै॑नान्थ् स॒माव॑ती य॒ज्ञ्स्या॒ ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ ॅवर्.ष॑त्ये॒वं ॅय॒ज्ञो यज॑मानाय वर्.षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञ्ं ॅयज॑मानः॒ परि॑ गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं - [ ]
पदपाठः (Word-by-word)
आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यान् । का॒मये॑त । यज॑मानान् । स॒माव॑ती । ए॒ना॒न् । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छे॒त् । इति॑ । तेषा᳚म् । ए॒ताः । व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः-अ॒नु॒वा॒क्या॑याः । अ॒द्र्ध॒र्च इत्य॒॑द्र्ध-ऋ॒चे । एका᳚म् । द॒द्ध्या॒त् । या॒ज्या॑यै । पु॒रस्ता᳚त् । एका᳚म् । या॒ज्या॑याः । अ॒द्र्ध॒र्च इत्य॑द्र्ध - ऋ॒चे । एका᳚म् । तथा᳚ । ए॒ना॒न् । स॒माव॑ती । य॒ज्ञ्स्य॑ । आ॒शीरित्या᳚ - शीः । ग॒च्छ॒ति॒ । यथा᳚ । वै । प॒र्जन्यः॑ । सुवृ॑ष्ट॒मिति॒ सु - वृ॒ष्ट॒म् । वर्.ष॑ति । ए॒वम् । य॒ज्ञ्ः । यज॑मानाय । व॒र्॒.ष॒ति॒ । स्थल॑या । उ॒द॒कम् । प॒रि॒गृ॒ह्णन्तीति॑ परि - गृ॒ह्णन्ति॑ । आ॒शिषेत्या᳚ - शिषा᳚ । य॒ज्ञ्म् । यज॑मानः । परीति॑ । गृ॒ह्णा॒ति॒ । मनः॑ । अ॒सि॒ । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।