प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.4.2 TS 1.6.4.2
मुज्जि॑ति॒मनूज्जे॑षं महे॒न्द्रस्या॒हमुज्जि॑ति॒- मनूज्जे॑षम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽह मुज्जि॑ति॒-मनूज्जे॑षं॒ ॅवाज॑स्य मा प्रस॒वेनो᳚द् ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नाꣳ॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यतां ॥ एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तो - [ ]
पदपाठः (Word-by-word)
उज्जि॑ति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । अ॒हम् । उज्जि॑ति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । वाज॑स्य । मा॒ । प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ । उदिति॑ । अ॒ग्र॒भी॒त् ॥ अथ॑ । स॒पत्नान्॑ । इन्द्रः॑ । मे॒ । नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ । अध॑रान् । अ॒कः॒ ॥ उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् । च॒ । नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् । च॒ । ब्रह्म॑ । दे॒वाः । अ॒वी॒वृ॒ध॒न्न् ॥ अथ॑ । स॒पत्नान्॑ । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । मे॒ । वि॒षू॒चीनान्॑ । वीति॑ । अ॒स्य॒ता॒म् ॥ एति॑ । इ॒माः । अ॒ग्म॒न्न् । आ॒शिष॒ इत्या᳚ - शिषः॑ । दोह॑कामा॒ इति॒ दोह॑ - का॒माः॒ । इन्द्र॑वन्त॒ इतीन्द्र॑- व॒न्तः॒ ।
पदसंख्या: 50