प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.4.3 TS 1.6.4.3
वनामहे धुक्षी॒महि॑ प्र॒जामिषं᳚ ॥ रोहि॑तेन त्वा॒ऽग्निर् दे॒वतां᳚ गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां᳚ गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वतां᳚ गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ ॅयच्च॑ भ॒द्रं प्र णो᳚ ब्रूताद्-भाग॒धान् दे॒वता॑सु ॥ विष्णोः᳚ शं॒ॅयोर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयꣳ॒॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ - [ ]
पदपाठः (Word-by-word)
व॒ना॒म॒हे॒ । धु॒क्षी॒महि॑ । प्र॒जामिति॑ प्र-जाम् । इष᳚म् ॥ रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता᳚म् । ग॒म॒य॒तु॒ । हरि॑भ्या॒मिति॒ हरि॑ - भ्या॒म् । त्वा॒ । इन्द्रः॑ । दे॒वता᳚म् । ग॒म॒य॒तु॒ । एत॑शेन । त्वा॒ । सूर्यः॑ । दे॒वता᳚म् । ग॒म॒य॒तु॒ । वीति॑ । ते॒ । मु॒ञ्चा॒मि॒ । र॒श॒नाः । वीति॑ । र॒श्मीन् । वीति॑ । योक्त्रा᳚ । यानि॑ । प॒रि॒चर्त॑ना॒नीति॑ परि - चर्त॑नानि । ध॒त्तात् । अ॒स्मासु॑ । द्रवि॑णम् । यत् । च॒ । भ॒द्रम् । प्रेति॑ । नः॒ । ब्रू॒ता॒त् । भा॒ग॒धानिति॑ भाग - धान् । दे॒वता॑सु ॥ विष्णोः᳚ । श॒म्ॅयोरिति॑ शं - योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया᳚ । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒मे॒य॒म् । सोम॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
पदसंख्या: 50