ऽनयै॒वैनाः॒ प्र ण॑य॒त्य-स्क॑न्नहविर् भवति॒ य ए॒वं ॅवेद॑ यज्ञायु॒धानि॒ सं भ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञ्मे॒व तथ्सं भ॑रति॒ यदेक॑मेकꣳ सं॒भरे᳚त्-पितृदेव॒त्या॑नि स्यु॒र्यथ् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ संभ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒वयो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तो᳚ऽस्य य॒ज्ञ्ः क॑ल्पते॒ स्फ्यः- [ ]
पदपाठः (Word-by-word)
अ॒नया᳚ । ए॒व । ए॒नाः॒ । प्रेति॑ । न॒य॒ति॒ । अस्क॑न्नहवि॒रित्यस्क॑न्न - ह॒विः॒ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ् - आ॒यु॒धानि॑ । समिति॑ । भ॒र॒ति॒ । य॒ज्ञ्ः । वै । य॒ज्ञा॒यु॒धानीति॑ यज्ञ् - आ॒यु॒धानि॑ । य॒ज्ञ्म् । ए॒व । तत् । समिति॑ । भ॒र॒ति॒ । यत् । एक॑मेक॒मित्येक᳚म् - ए॒क॒म् । स॒भंरे॒दिति॑ सं-भरे᳚त् । पि॒तृ॒दे॒व॒त्या॑नीति॑ पितृ - दे॒व॒त्या॑नि । स्युः॒ । यत् । स॒ह । सर्वा॑णि । मा॒नु॒षाणि॑ । द्वेद्वे॒ इति॒ द्वे - द्वे॒ । समिति॑ । भ॒र॒ति॒ । या॒ज्या॒नु॒वा॒क्य॑यो॒रिति॑ याज्या - अ॒नु॒वा॒क्य॑योः । ए॒व । रू॒पम् । क॒रो॒ति॒ । अथो॒ इति॑ । मि॒थु॒नम् । ए॒व । यः । वै । दश॑ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ् - आ॒यु॒धानि॑ । वेद॑ । मु॒ख॒तः । अ॒स्य॒ । य॒ज्ञ्ः । क॒ल्प॒ते॒ । स्फ्यः ।