प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.8.3 TS 1.6.8.3
च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं ॅवेद॑ मुख॒तो᳚ऽस्य य॒ज्ञ्ः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते᳚ऽस्य दे॒वा ह॒व्यꣳ ह॒विर् नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ऽग्निꣳ होता॑रमि॒ह तꣳ हु॑व॒ इति॑ - [ ]
पदपाठः (Word-by-word)
च॒ । क॒पाला॑नि । च॒ । अ॒ग्नि॒हो॒त्र॒हव॒णीत्य॑ग्निहोत्र - हव॑नी । च॒ । शूर्प᳚म् । च॒ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । च॒ । शम्या᳚ । च॒ । उ॒लूख॑लम् । च॒ । मुस॑लम् । च॒ । दृ॒षत् । च॒ । उप॑ला । च॒ । ए॒तानि॑ । वै । दश॑ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ् - आ॒यु॒धानि॑ । यः । ए॒वम् । वेद॑ । मु॒ख॒तः । अ॒स्य॒ । य॒ज्ञ्ः । क॒ल्प॒ते॒ । यः । वै । दे॒वेभ्यः॑ । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । य॒ज्ञेन॑ । यज॑ते । जु॒षन्ते᳚ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् । ह॒विः । नि॒रु॒प्यमा॑ण॒मिति॑ निः - उ॒प्यमा॑नम् । अ॒भीति॑ । म॒न्त्र॒ये॒त॒ । अ॒ग्निम् । होता॑रम् । इ॒ह । तम् । हु॒वे॒ । इति॑ ।
पदसंख्या: 50