दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚ऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञ्स्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ ॅयच्छति य॒ज्ञ्स्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर् य॒ज्ञ्म॑तनुत॒ मन॑सै॒व तद्-य॒ज्ञ्ं त॑नुते॒ रक्ष॑सा॒-मन॑न्ववचाराय॒ यो वै य॒ज्ञ्ं ॅयोग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वि-( ) -त्या॑ह प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैनं॑ ॅयुनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥
पदपाठः (Word-by-word)
दे॒वेभ्यः॑ । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । य॒ज्ञेन॑ । य॒ज॒ते॒ । जु॒षन्ते᳚ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् । ए॒षः । वै । य॒ज्ञ्स्य॑ । ग्रहः॑ । गृ॒ही॒त्वा । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । तत् । उ॒दि॒त्वा । वाच᳚म् । य॒च्छ॒ति॒ । य॒ज्ञ्स्य॑ । धृत्यै᳚ । अथो॒ इति॑ । मन॑सा । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्म् । अ॒त॒नु॒त॒ । मन॑सा । ए॒व । तत् । य॒ज्ञ्म् । त॒नु॒ते॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ । यः । वै । य॒ज्ञ्म् । योगे᳚ । आग॑त॒ इत्या - ग॒ते॒ । यु॒नक्ति॑ । यु॒ङ्क्ते । यु॒ञ्जा॒नेषु॑ । कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । यु॒न॒क्तु॒ ( ) । इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । कः । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । ए॒न॒म् । यु॒न॒क्ति॒ । यु॒ङ्क्ते । यु॒ञ्जा॒नेषु॑ ॥