ताव॒दुपा᳚ऽऽप्नोति॒ य ए॒वं ॅवि॒द्वान॑मावा॒स्यां᳚ ॅयज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा᳚ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त् तेन॒ स प॑र॒मां काष्ठा॑मगच्छ॒त् तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त् तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगच्छ॒त् तेनेन्द्रं॑ नि॒रवा॑सायय॒त् तेनेन्द्रः॑ पर॒मां काष्ठा॑मगच्छ॒त् तेना॒ऽग्नीषोमौ॑ नि॒रवा॑सायय॒त् तेना॒ग्नीषोमौ॑ प॒रमां काष्ठा॑मगच्छतां॒ ॅय - [ ]
पदपाठः (Word-by-word)
ताव॑त् । उपेति॑ । आ॒प्नो॒ति॒ । यः । ए॒वम् । वि॒द्वान् । अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । यज॑ते । याव॑त् । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ । ताव॑त् । उपेति॑ । आ॒प्नो॒ति॒ । प॒र॒मे॒ष्ठिनः॑ । वै । ए॒षः । य॒ज्ञ्ः । अग्रे᳚ । आ॒सी॒त् । तेन॑ । सः । प॒र॒माम् । काष्ठा᳚म् । अ॒ग॒च्छ॒त् । तेन॑ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । तेन॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प॒र॒माम् । काष्ठा᳚म् । अ॒ग॒च्छ॒त् । तेन॑ । इन्द्र᳚म् । नि॒रवा॑सायय॒दिति॑ निः-अवा॑साययत् । तेन॑ । इन्द्रः॑ । प॒र॒माम् । काष्ठा᳚म् । अ॒ग॒च्छ॒त् । तेन॑ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । तेन॑ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । प॒र॒माम् । काष्ठा᳚म् । अ॒ग॒च्छ॒ता॒म् । यः ।