ए॒वं ॅवि॒द्वान् द॑र्.शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठां᳚ गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर्.शपूर्णमा॒सयो॒स्तानि॑ सं॒पाद्या॒नीत्या॑हुर् व॒थ्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाशं॑ - [ ]
पदपाठः (Word-by-word)
ए॒वम् । वि॒द्वान् । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । यज॑ते । प॒र॒माम् । ए॒व । काष्ठा᳚म् । ग॒च्छ॒ति॒ । यः । वै । प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ । य॒ज्ञेन॑ । यज॑ते । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । द्वाद॑श । द्व॒न्द्वानीति॑ द्वं - द्वानि॑ । द॒र्॒.श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्.श - पू॒र्ण॒मा॒सयोः᳚ । तानि॑ । स॒पांद्या॒नीति॑ सं- पाद्या॑नि । इति॑ । आ॒हुः॒ । व॒थ्सम् । च॒ । उ॒पा॒व॒सृ॒जतीत्यु॑प - अ॒व॒सृ॒जति॑ । उ॒खाम् । च॒ । अधीति॑ । श्र॒य॒ति॒ । अवेति॑ । च॒ । हन्ति॑ । दृ॒षदौ᳚ । च॒ । स॒माह॒न्तीति॑ सं - आह॑न्ति । अधीति॑ । च॒ । वप॑ते । क॒पाला॑नि । च॒ । उपेति॑ । द॒धा॒ति॒ । पु॒रो॒डाश᳚म् । च॒ ।