प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.6.9.4 TS 1.6.9.4
चा ऽधि॒श्रय॒त्याज्यं॑ च स्तंबय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑ च परि गृ॒ह्णाति॒ पत्नीं᳚ च॒ संन॑ह्यति॒ प्रोक्ष॑णीश्चा ऽऽसा॒दय॒त्याज्यं॑ चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्.शपूर्णमा॒सयो॒स्तानि॒ य ए॒वꣳ सं॒पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ॥
पदपाठः (Word-by-word)
अ॒धि॒श्रय॒तीत्य॑धि - श्रय॑ति । आज्य᳚म् । च॒ । स्त॒बं॒य॒जुरिति॑ स्तंब - य॒जुः । च॒ । हर॑ति । अ॒भीति॑ । च॒ । गृ॒ह्णा॒ति॒ । वेदि᳚म् । च॒ । प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ । पत्नी᳚म् । च॒ । समिति॑ । न॒ह्य॒ति॒ । प्रोक्ष॑णी॒रिति॑ प्र - उक्ष॑णीः । च॒ । आ॒सा॒दय॒तीत्या᳚ - सा॒दय॑ति । आज्य᳚म् । च॒ । ए॒तानि॑ । वै । द्वाद॑श । द्व॒न्द्वानीति॑ द्वं - द्वानि॑ । द॒र्॒.श॒पू॒र्ण॒मा॒सया॒रिति॑ दर्.श - पू॒र्ण॒मा॒सयोः᳚ । तानि॑ । यः । ए॒वम् । स॒पांद्येति॑ सं - पाद्य॑ । यज॑ते । प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ ॥
पदसंख्या: 40