रुश॑द्-दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्नं᳚ ॥ सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद् दि॑दीहि ॥ स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्द्धेहि य॒जथा॑य देव । यथ् सी॒महि॑ दिविजात॒ प्रश॑स्तं॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥ यथा॑ होत॒र्मनु॑षो - [ ]
पदपाठः (Word-by-word)
रुश॑त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒या । चि॒त् । अरू᳚क्षितम् । दृ॒शे । एति॑ । रू॒पे । अन्न᳚म् ॥ सः । ए॒ना । अनी॑केन । सु॒वि॒दत्र॒ इति॑ सु-वि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा᳚ । दे॒वान् । आय॑जिष्ठ॒ इत्या - य॒जि॒ष्ठः॒ । स्व॒स्ति ॥ अद॑ब्धः । गो॒पा इति गो-पाः । उ॒त । नः॒ । प॒र॒स्पा इति॑ परः-पाः । अग्ने᳚ । द्यु॒मदिति॑ द्यु - मत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥ स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । धे॒हि॒ । य॒जथा॑य । दे॒व॒ ॥ यत् । सी॒महि॑ । दि॒वि॒जा॒तेति॑ दिवि - जा॒त॒ । प्रश॑स्त॒मिति॒ प्र - श॒स्त॒म् । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥ यथा᳚ । हो॒तः॒ । मनु॑षः ।