दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒-शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ अ॒ग्निमी॑डे पु॒रोहि॑तं ॅय॒ज्ञ्स्य॑ दे॒वमृ॒त्विजं᳚ । होता॑रꣳ रत्न॒धात॑मं ॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ सान्त॑पना इ॒दꣳ ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ यो नो॒ मर्तो॑ वसवो दुर्.हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतो॒ - [ ]
पदपाठः (Word-by-word)
दे॒वता॒तेति॑ दे॒व - ता॒ता॒ । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि ॥ ए॒वा । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन्न् । अ॒ग्ने॒ । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥ अ॒ग्निम् । ई॒डे॒ । पु॒रोहि॑त॒मिति॑ पु॒रः - हि॒त॒म् । य॒ज्ञ्स्य॑ । दे॒वम् । ऋ॒त्विज᳚म् ॥ होता॑रम् । र॒त्न॒धात॑म॒मिति॑ रत्न - धात॑मम् ॥ वृषा᳚ । सो॒म॒ । द्यु॒मानिति॑ द्यु-मान् । अ॒सि॒ । वृषा᳚ । दे॒व॒ । वृष॑व्रत॒ इति॒ वृष॑ - व्र॒तः॒ ॥ वृषा᳚ । धर्मा॑णि । द॒धि॒षे॒ ॥ सान्त॑पना॒ इति॒ सां - त॒प॒नाः॒ । इ॒दम् । ह॒विः । मरु॑तः । तत् । जु॒जु॒ष्ट॒न॒ ॥ यु॒ष्माक॑ । ऊ॒ती । रि॒शा॒द॒स॒ इति॑ रिश - अ॒द॒सः॒ ॥ यः । नः॒ । मर्तः॑ । व॒स॒वः॒ । दु॒र्॒.हृ॒णा॒युरिति॑ दुः - हृ॒णा॒युः । ति॒रः । स॒त्यानि॑ । म॒रु॒तः॒ ।