शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्.ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ ॅवी॒रव॑त्तमं ॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥ गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माऽप॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अꣳह॑सः ॥ पू॒र्वीभि॒र्॒.हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यं । महो॑भि- [ ]
पदपाठः (Word-by-word)
शो॒चे॒ । वेः । त्वम् । हि । यज्वा᳚ ॥ ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वीति॑ । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥ अ॒ग्निना᳚ । र॒यिम् । अ॒श्न॒व॒त् । पोष᳚म् । ए॒व । दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ॥ य॒शस᳚म् । वी॒रव॑त्तम॒मिति॑ वी॒रव॑त् - त॒म॒म् ॥ ग॒य॒स्फान॒ इति॑ गय - स्फानः॑ । अ॒मी॒व॒हेत्य॑मीव - हा । व॒सु॒विदिति॑ वसु - वित् । पु॒ष्टि॒वद्र्ध॑न॒ इति॑ पुष्टि - वर्ध॑नः ॥ सु॒मि॒त्र इति॑ सु - मि॒त्रः । सो॒म॒ । नः॒ । भ॒व॒ ॥ गृह॑मेधास॒ इति॒ गृह॑ - मे॒धा॒सः॒ । एति॑ । ग॒त॒ । मरु॑तः । मा । अपेति॑ । भू॒त॒न॒ ॥ प्र॒मु॒ञ्चन्त॒ इति॑ प्र - मु॒ञ्चन्तः॑ । नः॒ । अꣳह॑सः ॥ पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रद्भि॒रिति॑ श॒रत् - भिः॒ । म॒रु॒तः॒ । व॒यम् ॥ महो॑भि॒रिति॒ महः॑ - भिः॒ ।