प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.3.13.6 TS 4.3.13.6
-श्चर्.षणी॒नां ॥ प्रबु॒द्ध्निया॑ ईरते वो॒ महाꣳ॑सि॒ प्रणामा॑नि प्रयज्यवस्तिरद्ध्वं । स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषद्ध्वं ॥ उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तोर्॑. ह॒विष्म॑ती घृ॒ताची᳚ । उप॒ स्वैन॑म॒रम॑तिर्व-सू॒युः ॥ इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्या ऽज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईꣳ सुर॒भीणि॑ वियन्तु ॥क्री॒डं ॅवः॒ शर्द्धो॒ मारु॑तमन॒र्वाणꣳ॑ रथे॒शुभं᳚ ।
पदपाठः (Word-by-word)
च॒र्॒.ष॒णी॒नाम् ॥ प्रेति॑ । बु॒द्ध्निया᳚ । ई॒र॒ते॒ । वः॒ । महाꣳ॑सि । प्रेति॑ । नामा॑नि । प्र॒य॒ज्य॒व॒ इति॑ प्र - य॒ज्य॒वः॒ । ति॒र॒द्ध्व॒म् ॥ स॒ह॒स्रिय᳚म् । दम्य᳚म् । भा॒गम् । ए॒तम् । गृ॒ह॒मे॒धीय॒मिति॑ गृह - मे॒धीय᳚म् । म॒रु॒तः॒ । जु॒ष॒द्ध्व॒म् ॥ उपेति॑ । यम् । एति॑ । यु॒व॒तिः । सु॒दक्ष॒मिति॑ सु-दक्ष᳚म् । दो॒षा । वस्तोः᳚ । ह॒विष्म॑ती । घृ॒ताची᳚ ॥ उपेति॑ । स्व । ए॒न॒म् । अ॒रम॑तिः । व॒सू॒युरिति॑ वसू - युः ॥ इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तत॑मा॒नीति॑ वी॒त - त॒मा॒नि॒ । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वता॑ति॒मिति॑ दे॒व - ता॒ति॒म् । अच्छ॑ ॥ प्रतीति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । वि॒य॒न्तु॒ ॥ क्री॒डम् । वः॒ । शद्‌र्धः॑ । मारु॑तम् । अ॒न॒र्वाण᳚म् । र॒थे॒शुभ॒मिति॑ रथे - शुभ᳚म् ॥
पदसंख्या: 50