कण्वा॑ अ॒भि प्र गा॑यत ॥ अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः᳚ । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒थ्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः ॥ प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥ उ॒प॒ह्व॒रेषु॒ यदचि॑द्ध्वं ॅय॒यिं ॅवय॑ इव मरुतः॒ केन॑ - [ ]
पदपाठः (Word-by-word)
कण्वाः᳚ । अ॒भि । प्रेति॑ । गा॒य॒त॒ ॥ अत्या॑सः । न । ये । म॒रुतः॑ । स्वञ्चः॑ । य॒क्ष॒दृश॒ इति॑ यक्ष - दृशः॑ । न । शु॒भय॑न्त । मर्याः᳚ ॥ ते । ह॒र्म्ये॒ष्ठा इति॑ हर्म्ये-स्थाः । शिश॑वः । न । शु॒भ्राः । व॒थ्सासः॑ । न । प्र॒क्री॒डिन॒ इति॑ प्र - क्री॒डिनः॑ । प॒यो॒धा इति॑ पयः - धाः ॥ प्रेति॑ । ए॒षा॒म् । अज्मे॑षु । वि॒थु॒रा । इ॒व॒ । रे॒ज॒ते॒ । भूमिः॑ । यामे॑षु । यत् । ह॒ । यु॒ञ्जते᳚ । शु॒भे ॥ ते । क्री॒डयः॑ । धुन॑यः । भ्राज॑दृष्टय॒ इति॒ भ्राज॑त् - ऋ॒ष्ट॒यः॒ । स्व॒यम् । म॒हि॒त्वमिति॑ महि - त्वम् । प॒न॒य॒न्त॒ । धूत॑यः ॥ उ॒प॒ह्व॒रेष्वित्यु॑प-ह्व॒रेषु॑ । यत् । अचि॑द्ध्वम् । य॒यिम् । वयः॑ । इ॒व॒ । म॒रु॒तः॒ । केन॑ ।