चित् प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥ अ॒ग्निम॑ग्निꣳ॒॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पतिं᳚ । ह॒व्य॒वाहं॑ पुरुप्रि॒यं ॥ तꣳ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ । अ॒ग्निꣳ ह॒व्याय॒ वोढ॑वे ॥ इन्द्रा᳚ग्नी रोच॒ना दि॒वः > 1, श्नथ॑द्वृ॒त्र मिन्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरो॒ विश्व॑कर्मन्. ह॒विषा॑ वावृधा॒नोविश्व॑कर्मन्. ह॒विषा॒ वर्ध॑नेन ॥
पदपाठः (Word-by-word)
चि॒त् । प॒था ॥ श्चोत॑न्ति । कोशाः᳚ । उपेति॑ । वः॒ । रथे॑षु । एति॑ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑वर्ण॒मिति॒ मधु॑ - व॒र्ण॒म् । अर्च॑ते ॥ अ॒ग्निम॑ग्नि॒मित्य॒ग्निम् - अ॒ग्नि॒म् । हवी॑मभि॒रिति॒ हवी॑म - भिः॒ । सदा᳚ । ह॒व॒न्त॒ । वि॒श्पति᳚म् ॥ ह॒व्य॒वाह॒मिति॑ हव्य - वाह᳚म् । पु॒रु॒प्रि॒यमिति॑ पुरु - प्रि॒यम् ॥ तम् । हि । शश्व॑न्तः । ईड॑ते । स्रु॒चा । दे॒वम् । घृ॒त॒श्चुतेति॑ घृत - श्चुता᳚ ॥ अ॒ग्निम् । ह॒व्याय॑ । वोढ॑वे ॥ इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । रो॒च॒ना । दि॒वः । श्नथ॑त् । वृ॒त्रम् । इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ । विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । ह॒विषा᳚ । वा॒वृ॒धा॒नः । विश्व॑कर्म॒न्निति॒ विश्व॑ - क॒र्म॒न्न् । ह॒विषा᳚ । वद्र्ध॑नेन ॥