वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ ऽऽदि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑ र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्द्धाऽसि॒ राड् ध्रु॒वाऽसि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड् ध्रु॒वाऽसि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ ( ) वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥
पदपाठः (Word-by-word)
वातः॑ । दे॒वता᳚ । सूर्यः॑ । दे॒वता᳚ । च॒न्द्रमाः᳚ । दे॒वता᳚ । वस॑वः । दे॒वता᳚ । रु॒द्राः । दे॒वता᳚ । आ॒दि॒त्याः । दे॒वता᳚ । विश्वे᳚ । दे॒वाः । दे॒वता᳚ । म॒रुतः॑ । दे॒वता᳚ । बृह॒स्पतिः॑ । दे॒वता᳚ । इन्द्रः॑ । दे॒वता᳚ । वरु॑णः । दे॒वता᳚ । मू॒द्र्धा । अ॒सि॒ । राट् । ध्रु॒वा । अ॒सि॒ । ध॒रुणा᳚ । य॒न्त्री । अ॒सि॒ । यमि॑त्री । इ॒षे । त्वा॒ । ऊ॒र्जे । त्वा॒ । कृ॒ष्यै । त्वा॒ । क्षेमा॑य । त्वा॒ । यन्त्री᳚ । राट् । ध्रु॒वा । अ॒सि॒ । धर॑णी । ध॒र्त्री । अ॒सि॒ । धरि॑त्री । आयु॑षे । त्वा॒ ( ) । वर्च॑से । त्वा॒ । ओज॑से । त्वा॒ । बला॑य । त्वा॒ ॥ 14